SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । पूर्वावश्यकर्माणि मध्याह्ने प्रीतिनाशनम् । उच्चाटनमपराद्धे सैन्ध्याया मारणं स्मृतम् ॥ शांन्तिकमर्द्धरात्रे च भाते पौष्टिक तथा । वश्यं मुक्त्वाऽन्यकर्माणि सव्यहस्तेन योजयेत् ॥ शोन्ती पुष्टौ मुक्तौ श्वेतं क्षोभेऽतिपीतमत्यरुणम् । वैश्याकृष्ट' द्वेपोचाटे धूम्र मृतौ महाकृष्णम् ॥ ध्यानमिति शेषः । पार्थिवे स्तम्भनं पुष्टिर्वश्यं शान्तिर्जलात्मके । आग्नेये कर्षण दाहो वायौ द्वेप मृतिः परैः ।। वैश्य बालस्वरे द्वैते आकृष्टिं च युँत्रात्मके । शान्ति चश्य च पुष्टिं च द्वेष - स्तम्भौ च वृद्धके ॥ मृत्यु मृत्युस्वरे कुर्यात् आद्यपञ्चस्वरक्रमात् । बालादिकस्वरो ध्याता कार्यानुमितमानसः ।। नमोsनकाले होमे स्वाहा शान्ती स्वधाऽऽकृष्टौ । चपट् क्षोभे सर्वौषट् मद्वेषे फडिति घे मृति || स्फटिक मैवाल - मुक्ता - चामीकर- पुत्रजीवमालाभिः । श्रीजैः पद्मोत्थैरथ शान्त्याद्युचितं जप कुर्यात् ॥ पद्मासनाद्यमासनमय मुद्राः सपरमेष्ठिमुद्रायाः । सितपत्रादिभिरर्चा कुकुम- गोरोचनादिलेख्यदलम् ॥ - सौवर्ण रजत कास्पजपात्र तर युज्यते साधोः । सङ्घस्य कार्यहेतोः सर्व युज्येत नान्यत्र ॥ मायोऽत्र सूरियन्त्रं महता कार्ये शुभे महति योज्यम् । तेन विलिख्य पाने कर्पूराद्यैरिदं पूज्यम् ॥ 1 पूरक- रेचकयोगादाहान - विसर्जने करोतु बुधः । पूजाभिमुख करणस्थापनकर्माणि कुम्भकः ॥ [ ५९ ५८६ ५८७ इ ५८८ f 1 ५८९ ५९० ५९१ ५९२ ५९३ ५९४ ५९५ ५९६ ५९७
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy