SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ उपस्थितमप्यासीत् । तद्धि सर्वदा समानमेव भवदपि प्रतिक्षणं नूतनमेवाऽभवत् । को वैतदवबुध्येताऽवधारयेद् वा ? स स्वयमपि तन्नैवाऽवबुद्धवान्, केवलमव्यक्तो विकल्पोऽस्पष्टा स्मृतिदिव्याश्च ध्वनयस्तन्मनो व्याप्नुवन्ति स्म । सिद्धार्थोऽभ्युत्थितवान् । क्षुत्पीडेदानीमसह्या जायमानाऽऽसीत् । यथाकथमपि तां सहमानः स नदीतटे भ्रमन्नासीत्, जलतरङ्गाणां कलकलध्वनि शृण्वन्, स्वशरीरे जायमानं तीव्रक्षुद्वेदनाध्वनि च शृण्वन् । ___यदा स घट्ट प्राप्तस्तदा तरणनौका तत्रैवाऽऽसीत्, तथा नाविको, येनैकदा तरुणः श्रमणः पारं प्रापितः, सोऽपि नौकायामुपविष्ट आसीत् । सिद्धार्थस्तं प्रत्यभिज्ञातवान् । सोऽपि च वयस्को जात आसीत् । "किं भवान् मां नदीपारं प्राययिष्यति ?' सिद्धार्थः पृष्टवान् । कञ्चन विशिष्टव्यक्तित्वशालिनं जनमेकाकिनं पादचारिणं च दृष्ट्वा विस्मितो नाविकस्तं नावि उपवेश्य प्रस्थितः । 'भवता श्रेष्ठं जीवनं चितमस्ति खलु !' – सिद्धार्थ उक्तवान्, 'नद्याः समीपेऽवस्थानं प्रत्यहं च तस्यां नौचालनं ह्यवश्यं शोभनं प्रमोदप्रदं च स्यान्ननु !'। मृदुतया नावं प्रेरयन् नाविक ईषत् स्मितवान् कथितवांश्च - 'भवत्कथनानुसारमेतत्त्ववश्यं शोभनमस्ति महोदय !। किन्तु, सर्वं जीवनं सर्वमपि च कार्यं शोभनमेव नास्ति खलु ?' । 'स्यादेव भोः !, परन्तु मम भवतो भवदीयकार्यस्य चेा भवति' । ___ 'अहो ! एवं वा । परं सद्य एवेतो भवतो रुचिः क्षीणा भविष्यति । यत एतज्जीवनं कार्यं चैतन्नास्ति महाघवस्त्रधारिणां जनानां कृते' । ११४
SR No.009972
Book TitleSiddhartha
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2013
Total Pages175
LanguageHindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy