SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ केशाश्च भवतः सुगन्धिनः परिकर्मिताश्च सन्तो न कस्यचिच्छ्रमणस्य यात्रिणो वा प्रतिभान्ति' । 'भवता सूक्ष्म निरीक्षणं कृतं मित्र !, भवतो दृष्टिपथे सर्वमपि समागतम् । किन्तु, अहं श्रमणोऽस्मीत्येतत् तु नैव कथितं मया खलु ! । मयोक्तं यदहं यात्रिकोऽस्मीति, एतच्च सर्वथा तथ्यम्' । 'भवतु, भवान् यात्रिकोऽस्तीति मन्येऽहम् । किन्तु, अल्पा एव केचनैतादृशैर्वस्त्रैरीदृशैरुपानहैरीदृक्षैश्च केशैर्यात्रां कुर्वन्ति ननु ! । योऽहं वर्षेभ्यो देशेषु परिभ्रमणं करोमि तेनाऽपि न कदाचिदीदृशो यात्रिको दृष्टचरः'। 'अहं भवदुक्तमङ्गीकरोमि गोविन्द !, परन्तु, अद्य हि भवतैतादृशो यात्रिकस्तथैतादृशवस्त्रोपानहादिधारकोऽपि दृष्टोऽस्ति । अपि च, स्मरतु भवान् प्रियमित्र ! दृश्यमानमिदं जगद्धि सर्वथा क्षणभङ्गुरमस्ति, अस्माकं वस्त्र-केशादीनां रीतयोऽपि क्षणिकाः, किञ्चाऽस्माकं केशाः शरीरमपि च क्षणविनश्वराणि । भवतो निरीक्षणं सर्वथाऽवितथम् । मया धारितानि वस्त्राणि धनिकजनस्यैव, तथाऽहमपि तानि धारयामि यतोऽहमपि धनिक आसम् । तथा मम केशोपानहोऽपि धनिकानामिव आधुनिकशैलीकाः सन्ति यतोऽहमपि जागतिकजनानां धनिकानां चाऽन्यतम आसम्' । 'तर्हि, अधुना को वा भवान् अस्ति ?' 'अहं नैव जानामि, अथवा भवानिवाऽहमप्यत्यल्पं जानामि । अहं यात्रापथे प्रवृत्तोऽस्मि । सत्यमहं धनिक आसम्, किन्त्वधुना नैवाऽस्मि, तथा श्वः किं भविष्यामीत्यपि न जानामि' । 'किं भवता स्ववैभवं हारितं वा ?' 'मया तद् हारितमुत तेनाऽहं हारितः - इति तु नैव १०२
SR No.009972
Book TitleSiddhartha
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2013
Total Pages175
LanguageHindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy