________________
५४
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
॥ १८. श्रीमहावीराष्टकम् ॥
श्रीवीरं वैरमुक्तं प्रतिदिनमनघं मानवानां नवानां, वाञ्छापूर्ति वितन्वन्तमहकममहं सद्दयानां दयानाम् । पूरं शूरं शरीरस्थितरिपुदलने वास्तवानां स्तवानां, स्तोमैः सोमैः समस्तैः शमदमनियमैः संस्तवीमि स्तवीमि ॥१॥ ये त्वां सन्मधुराक्षरैरहरहः स्तोष्ट्रयमानाः स्तवै-राधिव्याधिरुपाधिराप्त ! भविनां दूरं प्रयाति क्षणात् । सद्म स्वर्गवदेव देव ! भवति प्रज्ञावतां प्राणिनां, दासन्त्येव सुरा वराः सुरमणिस्तेषां च हस्ते स्थितः ॥२॥ घोरक्रोधतरक्षु कामशबरं दुष्कर्मपञ्चाननं, मायाजाललताप्रतानगहनं मानोग्रमत्तद्विपम् । सम्फूत्कुर्वदमन्दलोभभुजगं रागोग्रशार्दूलकं, संसारं विपिनं तदस्ति भविनां कस्त्वां विनाऽत्राऽऽश्रयः ॥३॥ विख्यातो धरणिप्रकाशकुशलोऽहं सर्वलोकप्रियः, सूर्य ! त्वं किमु शूरतां प्रथयसीत्येवं क्षमामण्डले । श्रीवीरस्य समस्तलोकविदितं कर्मक्षयाविष्कृतं, किं नाऽऽलोकयसे त्रिलोककलनाकौशल्यमानन्ददम् ॥४॥ संसञ्चिन्तितदानकौशलकलाकेलीधराणां वर!, त्वं किं कल्पतरो! करोषि सततं दयू विनिःशङ्ककम् । विश्वेषां विकटप्रकोटिकलितक्रोधादराणां नृणां, किं संपश्यसि नैव वीरचरणान् संदर्शनात् कामदान् ॥५॥ जन्तुत्राणकराय सर्वभविनामानन्ददानाय च, ज्ञानानन्दमयाय नित्यमखिलध्येयाय गेयाय च । भव्यानां भवनाशनाय परमज्योतिःस्वरूपाय च, श्रीवीराय जिनाय विश्वपतये नित्यं नमः स्तान्मम ॥६॥ गीर्यस्याऽस्खलितप्रचाररचना पीयूषवर्षायते, संसाराम्बुधितारणे भगवतः पादोऽतिपोतायते । मर्त्यानां भय(व?) भीमकूपपततां हस्तो वरत्रायते, सैष श्रीजिनकुञ्जरः परमसंशान्ति विधत्तान्मम ॥७॥ चिन्तारत्नमतिप्रियं न भवति प्राज्यं न राज्यं तथा, चक्रित्वं न मनोरमं मम तथा देवेन्द्रता नो प्रिया । नो रम्याणि भवन्ति मेऽतिहृदये हाणि वीरप्रभो!, किन्त्वेकं तव पादपद्मशरणं मे सर्वदा सुप्रियम् ॥८॥
॥ इति श्रीसकलस्वपरसमयमानससरोवरवरराजहंसायमान-निःशेषान्तरङ्गवैरेभपञ्चाननायमानसकलभविभयदुस्तरापारवाधिप्रवहणायमान-श्रीमद्विजयनेमिसूरीश्वराचार्यवर्यचरणचञ्चरीकायमाण
प्रवर्तकयशोविजयविरचितं श्रीमहावीराष्टकं समाप्तम् ॥