SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ४४ प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ १३. अकारान्तप्रथमान्तपदैर्महावीरस्तोत्रम् ॥ देवस्स चिन्तामणिदेववृक्ष-जैत्रप्रणामश्शमवारिधारः । चामीकरोद्द्योतशरीरभासः, श्रीवीरनाथो भवहानिदोऽस्तु ॥१॥ प्रौढप्रभावो भुवनैकपूज्यः, कन्दर्प्पदर्पापहदेहभासः । संसारकान्तारगतिश्रमघ्नः, श्रीवीरनाथो भवहानिदोऽस्तु ॥२॥ कामोन्मदिष्णुद्विपदर्प्पघात- पञ्चाननो विश्वजनप्रपूज्यः । प्रौढप्रतापप्रविराजमानः, श्रीवीरनाथो भवहानिदोऽस्तु ||३|| मिथ्यात्वरात्रिप्रबलप्रघात - सूर्यायमाणः शिवदानशौण्डः । धीरत्वजेयाचलवंशनाथः, श्रीवीरनाथो भवहानिदोऽस्तु ॥४॥ दुःखान्धुमग्नाखिललोककाम्य- रज्जूयमानातुलवाग्विलासः । संसारनीरेश्वरपोतपादः, श्रीवीरनाथो भवहानिदोऽस्तु ||५|| सर्वोपसर्गग्रहदोषघातो, ध्यातोऽपि संसोढमहोपसर्ग: । यश्चित्रचारित्रधरो जिनेन्द्रः, श्रीवीरनाथो भवहानिदोऽस्तु ||६|| अप्रार्थितार्थप्रदताविलास-ड्रीणामरागोऽसमपुण्यदानः । श्रीकेवलालोकविभातलोकः, श्रीवीरनाथो भवहानिदोऽस्तु ॥७॥ श्रोत्रामृतास्वादमहाप्रपाभ-देवासुरासेव्यवपुःप्रभावः । संसारतर्षापहवाग्विलासः, श्रीवीरनाथो भवहानिदोऽस्तु ॥८॥ ॥ इति श्रीश्रमणजनमनश्चमत्कारकारिचरणकरणचातुरीका - ऽऽचार्यवर्य श्रीमद्विजयनेमिसूरीश्वर पादपद्मेन्दिन्दिरायमाण-विनेयप्रवर्त्तकयशोविजयविरचितं प्रथमान्तपदकदम्बमयं श्रीमहावीराष्टकं समाप्तम् ॥ &
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy