SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स्तुतिकल्पलता श्रीकाम्यं शशिभाभमीशममरैः पूज्यक्रमाम्भोरुहं, कार्याकार्यविवेचकागमवरं पुण्यप्रवाहार्णवम् । गेयं मेघगभीरघोषमपरं भव्याम्बुजाहर्मणि, श्रीपार्वं प्रणमामि भीभरहरं वाचंयमेशं परम् ||६|| मां मायापरिमोहरोहभयकं कम्प्रं रुजारौरवैः, कष्टव्यूहविशारणैकपटुकश्रेयोभरभ्राजक ! । वामामव्रजपङ्कशोषकरणप्रौढार्कबिम्बोपम !, प्रज्ञापाटवमीश ! यच्छ परमब्रह्मैकरूप ! प्रभो ! ||७|| ज्ञेयाज्ञेयविवेचकं प्रभुमहं पाद्यप्रपूज्यं परं, बिभ्राणं गुणराजिगौरववरं क्षीणाष्टकर्मव्रजम् । श्रीपार्श्वं परिबृंहणं शमयमश्रेण्याश्च वाण्याश्चयैरीडे विश्वविभुं विवेकिशरणं कर्मव्रजाच्छोटकम् ॥८॥ श्री नेमीश्वरसूरिराज्यसमये प्रौढप्रभावाकरे, तेषां पूर्णपरप्रसादमहिमा भ्राजिष्णुना जिष्णुना । तच्छिष्येण नुतो यशोविजय इत्याख्याभृता साधुना, निर्दन्त्यार्णपदैः स्तुतः प्रभुरिति श्रेयो विधत्तात् सताम् ॥९॥ (कविनामगर्भश्चक्रबन्ध:) यस्मान्मोहमहीरुहोरुपरशोः सञ्जायतेऽघात्ययः, शोरीर्येण सुशोभितश्च परितः पापौघशैलाशनिः । विद्यावैभववर्द्धकः प्रपवनः पार्श्वः श्रियां दायको, जन्माद्यार्तिमिमां प्रभिद्य परमं स्थानं विधत्तान्मम ॥१०॥ निर्द्दन्त्यार्णपदप्रबन्धपरमानन्दप्रदानोद्यतां, पार्श्वाशेषगुणैकरत्नरचनाचित्रीकृतान्तर्मतिम्। श्रीपार्श्वस्य पठन्तु संस्तुतिमिमां भव्याम्बुजाह: प्रभां, निःशेषव्यसनौघनाशनकृते मात्सर्यमुक्ता बुधाः ॥११॥ ॥ इति श्रीशकलितसकलकलहकोलाहलकपटकुलकलङ्कशैलकूटप्रविघट्टनप्रकटकौशलकुलिशायमान- निःशेषशेमुषीसमुन्मेषपराजितापरापराजितनिर्जराचार्यवर्या-ऽऽचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरपादपद्मेन्दिन्दिरायमाणविनेययशोविजयविरचितं निर्दन्त्यपदकदम्बमयं पाश्र्वाष्टकं स्तोत्रं समाप्तम् ॥ +3 ३३
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy