SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 30 प्रवर्तक-मुनिश्रीयशोविजयविरचिता ॥ ८. पादिबन्धाख्येन चित्रकाव्यभेदेन श्रीपार्श्वनाथस्तोत्रम् ॥ पुण्यपुञ्जपरिपूरितैः परैः, पूरुषैः प्रपरिपूजितः परम् । पापपुञ्जपरिपेषणे पटुः, पावनः परमपूरुषः परः ॥१॥ [रथोद्धता] पूज्यपादपरमप्रियः प्रभुः, प्रेमपाशपरिपन्थिपेषणः । पद्मपङ्क्तिपरिपेलवः परं, पीडितप्लवपिषः प्रपाटवः ।।२।। पादपांशुपविता प्रतिश्रयः, प्राणिनां प्रशमपेटकप्रदः । पार्थिवप्रणतपादपद्मकः, प्रार्थितप्रददपारिजातकः ॥३॥ पातु पापपटलात् परिग्रहं, प्रत्यजन् परिहरन् प्रपीडनम् । प्राणिनां प्रमदपूरणः पतिः, पारगः प्रभवपाथसः प्रभुः ॥४|| प्राणिनां प्रियपदप्ररोपकः, पारिजातपरताप्रणोदकः । पूज्यपङ्क्तिपरिपूजितः प्रियः, पार्श्वपारगतपूरुषः परः ॥५॥ पञ्चभिः कुलकम् ।। पार्श्वनाथपदपङ्कजं परं, प्राणिनां परपथप्रकाशकम् । पावनं परमपूरुषप्रियं, पातु पापपटलप्रमोचकम् ॥६॥ पिष्टपेषणपटुत्वपूरितः, पेषयेत् प्रथमतः प्रपिष्टकम् । पूर्वदेवपुरुहूतपाथिवैः, पूजितं प्रभुपदं प्रपूजये ||७|| पूज्यः पण्डितपर्षदां परपथप्राभासकः पालकः, पीयूषप्रविपातपावनपदः पूर्णप्रभः प्राणिनाम् । पाद्यैः पूजितपादक: परपथः प्राप्तप्रकर्षः प्रभुः, पार्श्वः पातु परप्रभावपरमः पापात् परं प्राणिनाम् ॥८॥ [शार्दूल०] (कविनामगर्भश्चक्रबन्धः) यस्मात् प्रापुरशेषशोककलहक्रोधव्रजा अत्ययं, शोभाभासितभूघनप्रकलितो विश्वप्रपूज्यो मुनिः ।
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy