SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता (शार्दूलविक्रीडितवृत्तेन कविनामगर्भश्चक्रबन्धः) यः सौख्यं विदधाति भव्यभविषु प्रौढप्रतापोदयः, शोकं हन्ति स सर्वभूतभयसंहारो विहारो गिराम् । विज्ञानप्रसुवां सुरेन्द्रभरसंपूज्यो महर्षिः सदा, जन्तुक्रोधशमः शिवाय भविनां भूयात् स चिन्तामणिः ॥११।। श्रीनेमीश्वरसूरिराज्यसमये भव्यारविन्देनभा, विद्वत्करवचन्द्रिका समजनि प्रौढप्रभावस्मृतेः । तस्यैवाऽतुलतेजसो मम गुरोरेषा स्तुतिः पावनी, यावद्भूमिरतो धराधरधरा तावज्जनैः पठ्यताम् ॥१२॥ एनां पार्श्वगुणप्रवाहकणिकाबोधेन धर्मद्रुमप्रोल्लासामलशान्तिवारिविसरप्रोद्वर्षिणी मानवाः !। अज्ञेनाऽपि मया कृतां भणत भोः किं वर्धितः पावको, मूढेनाऽपि न तार्णकूटदहने प्रौढप्रभावो भवेत् ? ॥१३।। एषा यशोविजयसञ्जकृता तनोतु, मोदं नवा बुधजनस्य किमस्ति तेन । श्रीपार्श्वपादयुगले तु समर्प्यमाणा, पापानि सर्वभविनां निहनिष्यतीह ॥१४।। श्रीनेमिसूरिपादाब्ज-प्रभावविहिता स्तुतिः । पठ्यमाना सदा भूयात्, सर्वकल्याणकारिणी ॥१५॥ ॥ इति निजस्फुरद्वाग्वज्रविदारितपाखण्डप्रचण्डखर्वगर्वपर्वत-महोपदेशामृतसेकसंवद्धितभव्य भविहृदयङ्गमातिशर्मदजिनोपज्ञसुज्ञानदानसिद्धान्तसारकारुण्यलता-ऽऽचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरपादपङ्कजमिलिन्दयशोविजयमुनिना विरचितं प्रथमैकवचनान्तपदसन्दर्भित श्रीचिन्तामणिपार्श्वस्तोत्रं समाप्तम् ।।
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy