SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ स्तुतिकल्पलता ॥ २. विविधनामगर्भच्छन्दोमयमुक्तक-श्रीपार्श्वजिनेश्वराष्टकम् ॥ (एकादशाक्षरचरणं त्रिष्टुभि बन्धुवृत्तम्) पार्श्वजिनं भवभीतिनिरासं, मायिकपाशविनाशनदक्षम् । देशनवारिनिवारिततापं, बन्धुमहं सकलस्य नतोऽस्मि ॥१॥ (त्रयोदशाक्षरचरणमतिजगत्यां मायावृत्तम्) लोकाधीशैर्भक्तिभरेणाऽऽनतपादं, यस्मिश्चेतो लग्नमपापं भविता ते । सर्वानन्दप्राप्तमुदारं भविबन्धो !, त्यक्त्वा मायां लोभमपि त्वं भज पार्श्वम् ॥२॥ (द्वादशाक्षरचरणं जगत्यां तामरसवृत्तम्) सुरहृदयालिनिपीतमरन्दो-पमशुभदेशनवाचमुदारम् । कलुषनिदाघहरं जनताया-स्तव मुखतामरसं जिन ! जीयात् ॥३॥ (त्रयोदशाक्षरचरणमतिजगत्यां प्रबोधितावृत्तम्) (मञ्जुभाषिणीत्यपि) परिभूतमानसतया मनोभुवा, हृतधर्मशेवधिचयाश्शरीरिणः । भवता जिनेन्द्र ! सहसा प्रबोधिता-स्सखमाप्नवन्ति मदमाननिद्रया ॥४॥ (चतुर्दशाक्षरचरणं शक्वर्यामपराजितावृत्तम्) जिनवरवृषभ: फणीन्द्रसुचिह्नितो, गुणमणिनिकरो जगत्पतिरीश्वरः । सकलसुरनरेश्वराद्यपराजिता-तुलबलधरणो दधातु शिवश्रियम् ॥५॥ १. भत्रयशोभितपादपिनद्धं गद्वयवर्णसुवर्णितबन्धम् । बन्ध्वभिधं प्रथितं भुवि विज्ञैर्दोधकसंज्ञमिदं प्रथितञ्च ॥ उट्टवणिका यथा - ॥ ॥ 55 २. माभिख्यः पूर्वं तगणस्स्याद् यदि पश्चात् पश्चात् तस्मात् स्याद् यगणस्साख्यगणाढ्यः । गान्त्योत्कृष्टा विज्ञमनोमोदददैषा माया प्रोक्ता विज्ञजनैः पदरम्या तु । उट्टवणिका यथा - 555 55।।55 5 5 मत्तमयूरमित्यपि वदन्ति । ३. नगणविलास इतः परमेव जगणनिबन्धकृतिः सुभगा च । भवति ततः परमेव जकारो यगणयुतो यदि तामरसं तत् ॥ उट्टवणिका यथा - || ।। ।। 155 ४. सगणो भवेत् प्रथममेव गुम्फितो, जगणस्ततस्सगणशोभितस्ततः । जगणः पुनर्गुरुयुतो यदा तदा, कथिता बुधैरिह वरा प्रबोधिता ॥ उट्टवणिका यथा - 05 ।। || Is5 नगणयुगयुता रकारविराजिता, सगणयुतपदा लघुप्रविमण्डिता । भवति गुरुयुता बुधप्रवरैरियं, स्वरविरतिरुदाहृता त्वपराजिता । उट्टवणिका यथा - ॥ ॥ 5 ॥5 15
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy