SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीस्तोत्रचिन्तामणिः १६९ ॥ ८. श्रीसिद्धचक्रस्तोत्रसङ्ग्रहः ॥ ॥ श्रीसिद्धचक्रस्तोत्रम् ॥ परमेष्ठिमहामन्त्रं, नेमिसूरीश्वरं तथा । प्रणम्य प्रणयाम्यद्य, सिद्धचक्रस्तुति मुदा ॥१॥ सिद्धचक्रस्य माहात्म्यं, न गिराऽप्यभिधीयते । तत्त्वत्रयाराधनाऽत्र, सम्पूर्णा धर्मसाधना ॥२॥ व्रताराधनमप्यत्र, केनाऽप्यंशेन गीयते । फलं भावानुसारेण, भाव उल्लासहेतुकः ॥३॥ क्रियाया अपि प्राधान्यं, शेयमित्थं द्वयोरपि । कूपखननतुल्या हि, क्रियाभावो शिरानिभः ॥४॥ शिरा नाऽऽविर्भवत्येव, कूपखननमन्तरा । शिरामृते वारि नैव, बहु तत्राऽवतिष्ठते ।।५।। अतः प्रवचने प्रोक्ता, द्वयोरप्युपयोगिता । न चेदेकं तदा नैव, स्वेष्टं कार्यं प्रसिद्ध्यति ।।६।। अल्पनिद्रोऽल्पभोजी च, निरीहो निष्कषायकः । अनन्यनिन्दको धीरो, गुरुभक्तिपरायणः ॥७॥ कर्मक्षयाभिलाषी च, मन्दरागादिवान् नयी । दयालुर्विनयी प्रोक्तः, सिद्धचक्रस्य साधकः ॥८॥ विज्ञायेत्थं गुरोः पार्वे, सिद्धचक्रविधिं वरम् । साधनां येऽत्र कुर्वन्ति, ते लभन्तेऽचलालयम् ॥९।। गुरूणां नेमिसूरीणां, प्रज्ञांशोऽयं प्रसादतः । पद्मनामा गणी भक्त्या, सिद्धचक्रस्तुति व्यधात् ॥१०॥
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy