SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीविजयपद्मसूरिविरचितः अन्त:स्थावितथप्रमोदनिभृताः कृत्वा शचीशामरा, यत्पादाब्जयुगस्य भक्तिममलां तज्जन्यसौख्याम्बुधेः । अग्रे शर्म निजं तृणोपममपि प्राज्यं न ते मन्वते, वन्देऽध्यात्मरसप्रदायकमहं तं श्रीजयानन्दनम् ॥२॥ सच्चित्ताब्जदिनेशकल्पममितैः सल्लक्षणैरन्वितं व्यस्ताशेषसरोषदोषनिकरं पुण्यद्रुमेघोपमम् । शुक्लध्यानकृशानुहेतिनिवहप्रध्वस्तकर्मेन्धनं, नौमि श्रीवसुपूज्यभूपतनयं प्रौढप्रभावाननम् ॥३॥ १४८ ॥ श्रीविमलनाथ-चैत्यवन्दनम् ॥ निखिलाक्षनिरोधकारकं, हरिदेवौघसमर्चितक्रमम् । विकलङ्कचरित्रधारकं, विमलं स्तौमि जिनं शमीश्वरम् ॥१॥ (वैतालीयवृत्तम्) यदि चेतसि भद्रवाञ्छना, तव हे जीव ! तदा हितप्रदाम् । प्रमुदाऽविचलेन चेतसा, कुरु वर्यां विमलार्चनां सदा ॥२॥ विमला बहवोऽभिधानतो, गुणयुक्ता पुनरत्र दुर्लभाः । विमलं गुणतोऽभिधानतः, प्रणमामीशमनन्तसद्गुणम् ||३|| ॥ श्रीअनन्तनाथ-चैत्यवन्दनम् ॥ भव्यचेतश्चको रेन्दुरीशोऽर्हतां, संस्तुतो भावतो द्योपतीशव्रजैः । चित्कलानन्दिताशेषसन्मण्डलो - ऽनन्तनाथोऽस्तु मे सर्वसिद्धिप्रदः ||१|| (स्रग्विणीवृत्तम्) शर्मदं कामदं कामदं निर्गदं विश्वविश्वस्थभव्याङ्गिसंपूजितम् । सिंहसेनान्वयव्योमदोषाकरं त्वामनन्तेश्वरं स्तौमि निस्तारकम् ॥२॥ त्यक्तरामाक्षमालास्त्रसार्थान्वयं, मङ्गलालिप्रदानामरानोकहम् । नामसद्ध्यानतो यस्य सिद्धिर्भवेद् नौमि तं श्येनचिह्न जिनाधीश्वरम् ॥३॥ ॥ श्रीधर्मनाथ - चैत्यवन्दनम् ॥ भुवनभव्यकजोन्नतिभास्करं, सकलवाञ्छितदानसुरद्रुमम् । विमलमङ्गलकेलिविधायकं भजत भानुसुतं भुवनाधिपम् ॥१॥ ( द्रुतविलम्बितवृत्तम्) अशनिलञ्छनमुत्तमसुव्रता - ङ्गजमनन्तगुणावलिभूषितम् । मथितमन्मथदर्पमनीश्वरं, भजत भानुसुतं भुवनाधिपम् ॥२॥ अमृतभोजिगणस्तुतसद्गुणं, अतिशयाञ्चितदेहजगद्वरम् । प्रवरधर्मदधर्मजिनेश्वरं भजत भानुसुतं भुवनाधिपम् ||३|| जगति विश्रुतकीर्तियशोभरं, त्रिजगदुत्तमपुण्यचयान्वितम् । प्रशमदं परभावनिवारकं भजत भानुसुतं भुवनाधिपम् ॥४॥ अशरणावनदायकदर्शनं, परमकेवलबोधविराजितम् । पुरुषसिंहनिभं पुरुषोत्तमं, भजत भानुसुतं भुवनाधिपम् ॥५॥
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy