SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४६ श्रीविजयपद्मसूरिविरचितः त्वां भद्रभूमिरुहसेचनवारिवाहं, दृष्ट्वा विकासमयते मम चित्तबी । कल्याणकान्तिसुमते ! करुणां विधाय, तूर्णं विमोचय च मां बलिमोहपाशात् ॥३॥ ॥ श्रीसुमतिनाथ-चैत्यवन्दनम् - २ ॥ भुवनप्रकाशनभानु, कृशानुमतिगाढकर्मवनदहने । क्रौञ्चध्वजमेघसुतं, त्रिशतधनुर्देहमभिवन्दे ॥१॥ (आर्यावृत्तम्) भविजनचित्तकजेन्दु, विमतिवितानेभवारपञ्चमुखम् । खाश्वसुभटजेतारं, वन्दे श्रीमङ्गलातनयम् ॥२॥ पूर्वाणां लक्षाणि, चत्वारिंशच्च यस्य सर्वायुः । निजगुणरक्तं सुमति, नित्यं प्रातः प्रणिदधामि ॥३॥ ॥ श्रीपद्मप्रभस्वामि-चैत्यवन्दनम् ॥ प्रस्वेदरोगमलहीनशरीरमेवं, रूपं च यस्य प्रवरं शुभदेहगन्धः । श्वासोऽपि नीरजसुगन्धसमस्तथैव, मांसासृजौ विमलधेनुपयःसितौ च ॥१॥ (वसन्ततिलका) नीहारभोजनमनीक्ष्यमवर्यनेत्रै-रुद्दामसद्गुणनिधिर्मरुदर्चनीयः । कल्याणसुन्दररुचिनिहतान्तरारिः, पद्मप्रभः स जिनपोऽस्तु ममोदयाय ॥२॥ रामादिसङ्गविकलं यमवीक्ष्य देवा, नीचैर्मुखा हरिहरप्रमुखा भवन्ति । शीतांशुशान्तवदनो जगदेकवीर-स्तं शान्तिदं प्रणिदधे सरसीरुहाङ्कम् ॥३॥ सद्ध्यानवातततिनाऽहितकर्ममेघाः, क्षिप्ता अनन्तबलवीर्ययुतेन येन । यस्य स्तुति विदधते विबुधा विनोदात्, तं संस्मरन्तु भविनो धरराजसूनुम् ॥४॥ ॥ श्रीसुपार्श्वनाथ-चैत्यवन्दनम् ॥ सुराधिपोपासितपादपद्म !, कृपाम्बुराशे ! समजन्तुजाते । सद्वानिरस्ताखिलवादियूथ !, सुपार्श्वनाथ ! प्रणमाम्यहं त्वाम् ॥१॥ (उपजातिवृत्तम्) वशीकृता येन हरादिदेवा, मनोभवेन त्वमनन्तवीर्य ! ।। वैराग्यतो तं विननाश मूला-दतः प्रणम्योऽस्यभिरूपवृन्दैः ।।२।। चिताघपङ्केन निभं बुधेशं, स्वास्थ्यं सदा यस्य गतावसानम् । प्रबोधवायुद्भवभानुभा, प्रतिष्ठपृथ्वीतनयं प्रवन्दे ॥३॥ ॥ श्रीचन्द्रप्रभस्वामि-चैत्यवन्दनम् ॥ मनश्चिन्तितार्थोघवेत्तारमीशं, निरस्ताघसार्थं त्रिलोकीसमय॑म् । महासेनपुत्रं सुधासूतिचिह्न, भजे तीर्थनाथाष्टमं चन्द्रदेवम् ॥१॥ (भुजङ्गप्रयातवृत्तम्)
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy