SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ स्तोत्रभानुः श्रुताम्भोजसरोवर्यं, सत्सङ्घातविधुं विभुम् । सर्वदा सम्भवं भक्त्या, जितारेर्नन्दनं स्तुवे ॥३॥ (त्रिभिर्विशेषकम् ) • ॥ श्रीअभिनन्दनस्वामि-चैत्यवन्दनम् ॥ सुरासुरेज्यं रुचिरं सुखालयं, हरन्तमीशं प्रचुरं महाभयम् । हिरण्यदीप्तिं प्रवरप्रबोधिनं नमामि तुर्यं जिनराजमिष्टदम् ॥१॥ (वंशस्थवृत्तम्) सुराङ्गनाभिर्वरकाञ्चनैर्घटैः, पूर्णैर्महाक्षीरसमुद्रवारिभिः । कृताभिषेकामलकाञ्चनाचले, जिनप्रभो ! त्वं जय संवराङ्गज ! ॥२॥ येनाऽखिलं गाढमहातमो हतं, दुष्कर्मरूपं रविनेव संसृतेः । जिगाय यो दुष्टमनोजभासुरं, स्ताच्छर्मदाताऽऽशु स वोऽभिनन्दनः ||३|| १२३ ॥ श्रीसुमतिनाथ - चैत्यवन्दनम् ॥ वरद इन्दुरुची रुचिरार्णवः, श्रुतमतेरभिरूपसुसेवितः । प्रहृतकर्ममहाजगलः प्रभु - विजयतां सततं स जगद्विभुः ॥१॥ ( द्रुतविलम्बितम् ) हतमहाखिलमोहतमस्ततिं, सकलसौख्यदमाप्तवरास्पदम् । सुखसरोवरहंसमहं स्तुवे, सुमतिधाम सदा सुमतिप्रभुम् ॥२॥ सकलसंसृतिदुःखमहोत्पलं, हिम इवाऽभिददाह य इष्टदः । निरुपमः प्रशमाब्धिरसौ विभु-र्जयति मेघसुनन्दन ईश्वरः ||३|| • ॥ श्रीपद्मप्रभनाथ-चैत्यवन्दनम् ॥ रागद्वेषारण्यमाशु प्रघोरं, दाह्यं दग्धं यत्प्रभासाग्निनेव । भव्यौघानां तत् सुसीमात्मजस्य, भूत्यै भूयात् पादपाथोजयुग्मम् ॥१॥ ( शालिनी) दुष्टाज्ञानद्वेषिसङ्घातशूर !, सुज्ञश्रेष्ठ ! प्राज्ञगम्य ! प्रधान ! | दिव्यज्ञान ! श्रीपते ! पद्मनाथ !, मुक्तीशानाऽभ्यर्चनीयोऽसि मे त्वम् ॥२॥ देवाधीशं सर्वकल्याणवल्लिं, विश्वख्यातं पूजनीयं नृदेवैः । पद्मं पद्मं विश्वभव्यद्विरेफे, नित्यं वन्दे नन्दनं श्रीधरस्य ||३|| ॥ श्रीसुपार्श्वनाथ - चैत्यवन्दनम् ॥ सदा निर्जरेज्यो वरो विश्वनाथो, गुणानां पयोधिर्जिनेशोऽमिताभः । पृथिव्यात्मजस्सर्वसौख्यप्रदाता, प्रभुर्यच्छतान्मुक्तिऋद्धिं विशालाम् ॥१॥ (भुजङ्गप्रयातम् )
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy