SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [औदुम्बरः, औदुम्बरायणिः] उदुम्बराणां राजा = औदुम्बरिः । 'साल्वांश-प्रत्यग्रथ०' (६।१।११७) इञ्प्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णवर्णस्य' (७४/६८) अलुक् । औदुम्बरेरपत्यम् = औदुम्बरः । 'ङसोऽपत्ये (६।१।२८) अण्प्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । 'अवृद्धाद् दोर्नवा' (६।१।११०) द्वितीये आयनिप्र० → आयनि । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । [गार्गेयः] गर्ग । गर्गस्यापत्यं वृद्धम् । 'गर्गादेर्यब्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'यत्रो डायन् च वा' (२।४।६७) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । गार्या अपत्यं = गार्गेयः । 'ड्याप्त्यूङः' (६।१।७०) एयणप्र० → एय । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः । [दाख्यः ] दक्षस्यापत्यं वृद्धम् । 'अत इञ्' (६।१।३१) इञ्प्र० । 'वृद्धिः स्वरे.' (७४।१) वृ० आ । 'नुर्जातेः' (२।४।७२) ङी । ('इज इतः' (२।४।७१) ङी) । दाक्ष्या अपत्यं = दाक्षेयः । 'झ्याप्त्यूङः' (६।१।७०) एयणप्र० → एय । 'अवर्णवर्णस्य' (७४/६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१२३५३) विसर्गः ॥छ। हरितादेरञः ॥ ६११५५ ॥ [हरितादेः ] हरित आदिर्यस्य सः = हरितादिः, तस्मात् । [अञ्] अञ् प्रथमा सि । विदाद्यन्तर्गणो हरितादिः । [हारितायनः ] हरितस्यापत्यं वृद्धं = हारितः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । हारितस्यापत्यं युवा = हारितायन: । अनेन आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [कैन्दासायनः] कुत्सितो दासः = किन्दासः । किन्दासस्यापत्यं वृद्धं = कैन्दासः । 'विदादेर्वृद्धे' (६।१।४१) ० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति तद्धिते' (७४।१) वृ० ऐ । 'अवर्णवर्णस्य' (७/४/६८) अलुक् । कैन्दासस्यापत्यं युवा । अनेन आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [वैदः ] विद । विदस्यापत्यं वृद्धं = वैदः । 'विदादेर्वृद्धे' (६।११४१)अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वैदस्यापत्यं युवा = वैदः । 'अत इञ्' (६।१।३१) इप्र० । 'जिदार्षादणिोः ' (६।१।१४०) इञ्लुप् । [हारितः] हरितस्यापत्यं वृद्धं = हारितः । अण्प्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । यूनीति अर्थ उभयपदे स्थितः ॥छ।। कोष्ट-शलङ्कोर्लुक् च ॥ ६।१।५६ ॥ [क्रोष्टशलङ्कोः ] क्रोष्टा च शलङ्कश्च = कोष्टशलङ्क, तस्मात् । [लुक् ] लुक् प्रथमा सि ।। ॥ श० म० न्या० - हरित आदौ यस्य सोऽयं गणो हरितादिः । जी हैमप्रकाशे - किमपि दासते ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy