SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [वा] वा प्रथमा सि । [ब्राह्मणधेनविः, ब्राह्मणधेनवः] ब्राह्मणधेनोरपत्यम् । अनेन विकल्पेन इप्र० → इ । म पक्षे - 'उत्सादेरञ्' (६।१।१९) अप्र० → अ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ॥ छ । भूयः-सम्भूयो-ऽम्भो-ऽमितौजसः स्लुक् च ॥ ६।१।३६ ॥ [भूयःसम्भूयोऽम्भोऽमितौजसः ] भूयश्च सम्भूयश्च अम्भश्च अमितौजश्च = भूयःसम्भूयोऽम्भोऽमितौजस्, तस्मात् । [स्लुक्] सो लुक् = स्लुक् । प्रथमा सि । [च] च प्रथमा सि । [भौयिः] अयं बहुः (२) । द्वयोर्मध्येऽतिशयेन बहुः = भूयान् । 'गुणाङ्गा०' (७।३।९) ईयसुप्र० → ईयस् । 'भूलुक् चेवर्णस्य' (७।४।४१) भूरादेशः - ईकारलोपश्च । भूयस् । भूयसोऽपत्यं = भौयिः । अनेन इञ्प्र० → इ - सलुक् च । 'वृद्धिः स्वरेष्वादेमिति तद्धिते' (७४|१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [साम्भूयिः] सङ्गतो भूयान् = सम्भूयः । प्रादिसमासः । सम्भूयसोऽपत्यं = साम्भूयिः । अनेन इञ्प्र० → इ - सलुक् च । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [आम्भिः ] अम्भस् । अम्भसोऽपत्यम् = आम्भिः । अनेन इप्र० → इ - सलुक् च । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । [आमितौजिः] 'मांक माने' (१०७३) मा । मीयते स्म = मितः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'दोसो-मा-स्थ इः' (४|४|११) इ । न मितं ओजो यस्यासौ अमितौजाः । अमितौजसोऽपत्यम् = आमितौजिः । अनेन इप्र० → इ - सलुक् च । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [आकतिः] अक 'तसूच् उपक्षये' (१२२४) तस् । अकं तस्यति । 'क्विप्' (५।१।१४८) क्विप्र० । अकतसोऽपत्यम् = आकतिः । मतान्तरेऽनेन इप्र० → इ - सलुक् च । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ ॥ छ । शालङ्क्यौदि-षाडि-वाड्वलि ॥ ६।१।३७ ॥ [शालङ्क्यौदिषाडिवाड्वलि] शालकिश्च औदिश्च षाडिश्च वाड्वलिश्च = शालङ्क्यौदिषाडिवाड्वलि । प्र० सि । 'अनतो लुप्' (१।४।५९) सिलुप् । [शालङ्किः] शलङ्क । शलङ्कोरपत्यं = शालङ्किः । अनेन इप्र० → इ - उकारलोपश्च निपात्यते । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० आ । [औदिः ] उदक । उदकस्यापत्यम् = औदिः । अनेन इप्र० → इ - कलोपश्च निपात्यते । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । [षाडिः] षष् । षण्णामपत्यं = षाडिः । अनेन इञ्प्र० → इ - ष० → डत्वं च निपात्यते । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । ॐ श० म० न्या० - पक्षे औत्सर्गिके 'ङसोऽपत्ये' (६।१।२८) अणि अवादेशे ब्राह्मणधेनवः इति । 卐 म० वृ० - भूयोभिः सङ्गतः ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy