SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३८५ [श्वतच्छत्रिकः] श्वेतच्छत्रमर्हति = श्वैतच्छत्रिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [वैषिकः] विषमर्हति = वैषिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [वास्त्रयुगिकः] वस्त्रस्य युगमर्हति = वास्त्रयुगिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [आभिषेचनिकः] अभिषेचनमर्हति = आभिषेचनिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [बालीवर्दिकः] बलीवईमर्हति = बालिवर्दिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [शत्यः, शतिकः] शतमर्हति = शत्यः, शतिकः । अनेन य-इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [साहस्त्रः] सहस्रमर्हति = साहस्रः । 'सहस्र-शतमानादण' (६।४।१३६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। दण्डादेर्यः ॥ ६।४।१७८ ॥ [ दण्डादेः] दण्ड आदिर्यस्य सः = दण्डादिः, तस्मात् । [यः] य प्रथमा सि । [ दण्ड्यः ] दण्ड । दण्डमर्हति = दण्ड्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र०। [मुसल्यः ] मुसल । मुसलमर्हति = मुसल्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। यज्ञादियः ॥ ६।४।१७९ ॥ [ यज्ञात्] यज्ञ पञ्चमी ङसि । [इयः] इय प्रथमा सि । [ यज्ञियो देशः, यज्ञियो यजमानः] यज्ञमर्हति = यज्ञियो देशो यजमानो वा । अनेन इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। यज्ञो नाम क्रियासमुदायः कश्चित् तदभिव्यङ्ग्यं वा प्रकाश्यमित्यर्थः । पूर्वं फलदानसमर्थं अदृष्टमित्याहुः ॥छ।। पात्रात् तौ ॥ ६।४।१८० ।। [पात्रात्] पात्र पञ्चमी उसि । [तौ ] तद् औ । 'आ द्वेरः' (२।१।४१) द० → अ० । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२) औ । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [385]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy