SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः ॥ [स्त्रैणम्, स्त्रीत्वम्, स्त्रीता] स्त्री । स्त्रिया भावः = स्त्रैणम्, स्त्रीत्वम्, स्त्रीता । अनेन विकल्पे नप्र० → न । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । पक्षे-त्व-तल्प्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ । [पौंस्नम्, पुंस्त्वम्, पुंस्ता] पुम्स् । पुंसो भावः = पौंस्नम्, पुंस्त्वम्, पुंस्ता । अनेन विकल्पे स्नप्र० → स्न । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । पक्षे-त्व-तलप्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ । ‘पदस्य' (२।१।८९) सलुक् । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः ॥छ।। गोः स्वरे यः ॥ ६।१।२७ ॥ [गोः] गो पञ्चमी ङसि । 'एदोद्भ्यां ङसि०' (१।४।३५) ङसि० → र० । 'र: पदान्ते०' (११३५३) विसर्गः । [स्वरे] स्वर सप्तमी ङि। [यः] य प्रथमा सि । [गव्यम् ] गो । गोरिदं = गव्यम् । 'तस्येदम्' (६।३।१६०) अण्प्राप्तौ अनेन यप्र० । 'य्यक्ये' (१।२।२५) गो० → गव० । [गव्यः] गो । गोरपत्यं = गव्यः । 'चतुष्पाद्ध्य एयञ्' (६।१८३) एयप्राप्तौ अनेन यप्र० । 'य्यक्ये' (१।२।२५) गो० → गव्० । ___[गव्यम् ] गो । गवि भवं = गव्यम् । 'भवे' (६।३।१२३) अण् - एयणप्राप्तौ अनेन यप्र० । 'य्यक्ये' (१।२।२५) गो० → गव्० । [गव्यः] गो । गौर्देवताऽस्य = गव्यः । 'देवता' (६।२।१०१) अण्प्राप्तौ अनेन यप्र० । 'य्यक्ये' (श।२५) गो० → गव् । [गव्यः] गो । गवा चरति = गव्यः । 'चरति' (६।१।११) इकण्प्राप्तौ अनेन यप्र० । 'य्यक्ये' (१२।२५) गो० → गव्० । _ [गोरूप्यम् ] गो । गोभ्यो हेतुभ्य आगतं = गोरूप्यम् । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) रूप्यप्र० । [गोमयम् ] गो । गोभ्यो हेतुभ्य आगतं = गोमयम् । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) मयटप्र० → मय ||छ।। ङसोऽपत्ये ।। ६।१।२८ ॥ [डसोऽपत्ये] ङस् षष्ठी ङस्(पञ्चमी ङसि) । अपत्य सप्तमी ङि । [भानवीयः] भानु । भानोरयं = भानवीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [श्यामगवीयः] श्याम-गो । श्यामा गौर्यस्य सः = श्यामगुः । 'गोश्चान्ते'० (२।४।९६) हुस्वः । 'परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ्' (३।२।४९) पुंवत् । श्यामगोरयं = श्यामगवीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् । 'तस्येदम्' (६।३।१६०) इत्येवाणादिसिद्धौ अपत्यविवक्षायां तदपवादबाधनार्थं वचनम्, तेन - [भानवः] भानोरपत्यं = भानवः ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy