SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३६७ द्वि-त्रि-बहोर्निष्क-विस्तात् ॥ ६।४।१४४ ॥ [द्वित्रिबहोः] द्विश्च त्रिश्च बहुश्च = द्वित्रिबहु, तस्मात् । [निष्कविस्तात् ] निष्कश्च विस्तश्च = निष्कविस्तम्, तस्मात् । [द्विनिष्कम्, द्विनैष्किकम् ] नि 'षद्लं विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सद् । निषीदन्ति गुणा अत्र = निष्कः । 'निष्क-तुरुष्कोदर्का-ऽलर्क-शुल्क-श्वल्क-किञ्जल्कोल्का-वृक्कच्छेक-केका-यस्काऽऽदयः' (उणा० २६) निष्कं निपात्यते । द्वाभ्यां निष्काभ्यां क्रीतं = द्विनिष्कम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्याशाण-कुलिजस्याऽनाम्नि' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [त्रिनिष्कम्, त्रिनैष्किकम्] त्रिभिनिष्कैः क्रीतं = त्रिनिष्कम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [बहुनिष्कम्, बहुनैष्किकम् ] बहुभिनिष्कैः क्रीतं = बहुनिष्कम् । मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्या०' (७।४।१९) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम्। [द्विविस्तम्, द्विवैस्तिकम् ] द्वाभ्यां विस्ताभ्यां क्रीतं = द्विविस्तम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्याशाण.' (७४/१९) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सिअम्। [त्रिविस्तम्, त्रिवैस्तिकम् ] त्रिभिविस्तैः क्रीतं = त्रिविस्तम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । _[बहुविस्तम्, बहुवैस्तिकम् ] बहुभिविस्तैः क्रीतं = बहुविस्तम् । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सिअम् ।।छ।। शताद् यः ॥ ६।४।१४५ ।। [शतात् ] शत पञ्चमी ङसि । [यः] य प्रथमा सि । [द्विशत्यम्, द्विशतम् ] द्वाभ्यां शताभ्यां क्रीतं = द्विशत्यम् । अनेन यप्र० । एवम्-द्विशतम् । 'सङ्ख्या -डतेश्चाऽशत्ति-ष्टेः कः' (६।४।१३०) कप्र० । 'अनाम्न्यद्विः प्लुप्'(६।४।१४१) लुप् । विधानसामर्थ्याद् यकारस्य न लुप् । _ [अध्यर्द्धशत्यम्, अध्यर्द्धशतम्] अध्यर्द्धन शतेन क्रीतम् = अध्यर्द्धशत्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वितीये 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । 'अनाम्न्यद्विः प्लुप्'(६।४।१४१) लुप् । सि-अम् । [अर्द्धषष्ठशत्यम्, अर्द्धषष्ठशतम् ] अर्द्ध षष्ठं येषां तानि-तैः = अर्द्धषष्ठैः शतैः क्रीतम् = अर्द्धषष्ठशत्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । द्वितीये 'सङ्ख्या -डतेश्चाऽशत्' (६।४।१३०) कप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । सि-अम् ॥छ।। Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [367]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy