SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः ।। = [ दैवी, दैव्यायनी वाक् ] देवस्येयं दैवी दैव्यायनी इत्यपि । अनेन यञ् - अञ्प्र० । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृ० ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलोप: । 'अणञेयेकण्- नञ् - स्नञ्-टिताम्' (२।४।२०) ङी । 'यञो डायन् च वा' (२२४।६७) ङी डायन् इति अन्ते आयन् वाक् प्रथमा सि ॥छ । ||छ| अः स्थाम्नः ॥ ६।१।२२ || [ अ ] अ प्रथमा सि । [स्थाम्नः ] स्थामन् पञ्चमी इसि I 'अनोऽस्य ' (२।१।१०८) अलोपः । (२२३१९८ ) स्था । 'निमित्ताभावे'० 'मन्' (उणा० ९११) मन्प्र० । अश्वत्थामा [ अश्वत्थाम: ] अथ 'वं गतिनिवृत्ती' (५) ष्ठा 'पः सोऽष्टयै ष्ठिव ष्वष्कः' (न्या० सं० वक्ष० (१) / सूत्र (२९)) स्था । अश्व इव तिष्ठति पृषोदरादित्वात् सस्य त० । 'एकदेशविकृतमनन्यवत्' (न्या० सं० वक्ष० ( १ ) / सूत्र (७)) स्थानित्वम् । अश्वत्थाम्नोऽपत्यम् । अनेन अप्र० । 'नोऽपदस्य तद्धिते' (७|४|६१ ) अन्लोपः । प्रथमा सि ॥छ । लोम्नोऽपत्येषु || ६|१|२३|| [ लोग्नः ] लोमन् पञ्चमी ङसि । [ अपत्येषु ] न ‘पत्लृ गतौ' (९६२) पत् । न पतन्ति येन जातेन पूर्वजनकादिषु तद् = अपत्यम्, तेषु । ‘नञो हलि- पते:' ( उणा० ३५८) यप्र० । 'नञत्' (३।२।१२५) न० अ० । [ उडुलोमा:, उडुलोमै ] उडु लोमन् । उडुवल्लोमानि यस्य सः = उडुलोमा । उडुलोम्नोऽपत्यानि = उडुलोमाः । अनेन अप्र० । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लोपः । प्रथमा जस् । तृतीया भिस् । [शरलोमाः, शरलोमैः ] शर- लोमन् । शरवल्लोमानि यस्य सः = शरलोमा । शरलोम्नोऽपत्यानि शरलोमाः । अनेन अप्र० । 'नोऽपदस्य तद्धिते (७२४२६१) अनुलोपः । प्रथमा जस् । तृतीया भिस् । १७ [ औडुलोमिना ] उडुलोम्नोऽपत्यम् = औबुलोमिः तेन 'बाह्यादिभ्यो गोत्रे (६।१।३२ ) इक्प्र०३ वृद्धिः । । स्वरेष्वादेर्ष्णिति'० (७|४|१) वृ० औ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लोपः । तृतीया टा । [द्विगोः ] द्वौ गावौ यस्य सः = द्विगुः तस्मात् । [ अनपत्ये ] न अपत्यम् अनपत्यम्, तस्मिन् । = [ औडुलोमिभ्याम् ] उडुलोम्नोऽपत्ये आँडुलोमौ, ताभ्याम् । 'बाह्यादिभ्यो गोत्रे' (६ १ ३२) इक्प्र० ३ । 'वृद्धि: स्वरे० (७|४|१) वृ० औ 'नोऽपदस्य तद्धिते' (७७४२६१) अन्लोपः । तृतीया भ्याम् ॥छ। द्विगोरनपत्ये य-स्वराऽऽदेर्लुबद्विः || ६|१|२४ ॥ = [ यस्वराऽऽदे: ] यश्च स्वरश्च = यस्वरौ यस्वरावादी यस्य सः यस्वरादिः तस्य । [ लुप् ] लोपनं लोपः । = = = , लुप् । 'क्रुत्-संपदादिभ्यः क्विप् (५|३|११४) क्विप्प्र० । 'अप्रयोगीत् ' (१।१।३७) क्विप् [ अद्विः ] द्वौ वारौ यस्येति द्विः । द्वित्रिचतुरः सुच्' (७२।११०) सुच्प्र० । न ह्निः अद्विः । 'क्रियाविशेषणात्' (२।२।४१) अम् । 5 श० म० न्यासानुसन्धाने - मध्यमवृत्तौ - हैमप्रकाशे- 'मन् वन्- क्वनिप्०' (५।१।१४७) मन्प्र० ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy