SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ सांशयिकश्चैत्रो न जाने जीवति उत मृत इति ] संशयं प्राप्तः = सांशयिकः । अनेन इकण्प्र० इक । 'वृद्धिः स्वरेष्वादेर्ष्णिति०' (७१४/१) वृद्धिः आ 'अवर्णेवर्णस्य' (७४६८) अलुक् सांशयिकक्षेत्रो न जाने जीवति उत मृत इति ॥ छ|| ३४४ तस्मै योगादेः शक्ते ॥ ६४९४ ॥ [तस्मै ] तस्मै पञ्चमी इसि । सूत्रत्वाल्लुप् । [ योगादे: ] योग आदिर्यस्य सः योगादिः तस्मात् । = [ शक्ते ] शक्त सप्तमी ङि । [ यौगिक: ] योगाय शक्तः = : यौगिकः । अनेन इकण्प्र० इक वृद्धिः स्वरेष्वादेर्ज्जिति०' (७४१) वृद्धिः औ। 'अवर्णेवर्णस्य' (७४६८) अलुक् । = । । [ सान्तापिकः] सन्तापाय शक्तः सान्तापिकः । अनेन इकण्प्र० इक 'वृद्धिः स्वरे० ' ( ७४१) वृद्धि: आ। 'अवर्णेवर्णस्य' (७४६८) अलुक् ॥ योग- कर्मभ्यां योक || ६ |४ ९५ ॥ [योगकर्मभ्याम् ] योगश्च कर्मा च तौ, ताभ्याम् । = [ योकत्र ] यक्ष उकञ् च योकजी । योग्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७२४।६८) अलुक् । [ योग्यः ] योगाय शक्तः = [ कार्मुकम् ] कर्मन् । कर्मणे शक्तं कार्मुकम् । अनेन उकप्र० । वृद्धिः आ । 'नोऽपदस्य' (७|४|६१) अन्लुक् । सि-अम् ॥छा । । = यज्ञानां दक्षिणायाम् || ६|४|९६ || उक वृद्धिः स्वरेष्वादेगिंति०' (७४া१) [ यज्ञानाम् ] यज्ञानाम् पञ्चमी भ्यस् । सूत्रत्वाल्लुप् । [दक्षिणायाम् ] दक्षिणा सप्तमी ङि । यज्ञकर्मकृतां वेतनादानं दक्षिणा । । [ आग्निष्टोमिकी ] अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । अनेन इकण्प्र० इक 'वृद्धिः स्वरे०' (७४ार) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'अणञेयेकण्० ' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । [ वाजपेयिकी ] वाजपेय मण्ड्यते । वाजपेयस्य दक्षिणा वाजपेयिकी । [ राजसूबिकी] राजसूयस्य दक्षिणा राजसूयिकी । [नावयशिकी] नवानां यज्ञानां दक्षिणा नावयज्ञिकी । तद्धितविषये समासः । [ पाञ्चौदनिकी ] पञ्च ओदना यत्र तत् । पञ्चौदनस्य दक्षिणा = पाञ्चौदनिकी । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेज्गिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणवेयेकण्०' (२२४२० ) ङी । 'अस्य दयां लुक्' (२२४१८६) अलुक् । = = = Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [344]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy