SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३४१ [यौजनिकः साधुः ] योजन । योजनादभिगमनमर्हति = यौजनिकः साधुः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र०॥छ।। तद् यात्येभ्यः ॥ ६।४।८७ ॥ [ तद् ] तद् अम् । 'अनतो लुप्' (१।४।५९) अम्लुप् । [याति ] याति-गच्छतीति यान्, तस्मिन् । याति सप्तमी ङि । सूत्रत्वात् वा । [ एभ्यः ] इदम् पञ्चमी भ्यस् । 'अनक्' (२।१।३६) अ० । 'एद् बहुस्भोसि' (१।४।४) ए । [क्रौशशतिकः] क्रोशशतं याति = क्रौशशतिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। [यौजनशतिकः] योजनशतं याति = यौजनशतिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [यौजनिको दूतः] योजनं याति = यौजनिको दूतः । अनेन इकण्प्र० → इक | 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र०॥छ।। पथ इकट् ॥ ६।४।८८ ।। [पथः] पथिन् पञ्चमी ङसि । 'इन् ङी-स्वरे लुक्' (१।४/७९) इन्लुक् । [इकट] इकट् प्रथमा सि । [पथिकः, पथिकी स्त्री] पथिन् । पन्थानं याति = पथिकः । अनेन इकट्प्र० → इक । 'नोऽपदस्य तद्धिते' (७४/६१) इन्लुक् । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी । [द्विपथिकः, द्विपथिकी स्त्री] द्वौ पन्थानौ याति = द्विपथिकः । अनेन इकट्प्र० → इक । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी । कटमकृत्वा इकड्वचनं परत्वात् 'ऋक्-पू:-पथ्यपोऽत्' (७/३७६) इत्यादिना अत्समासान्ते कृतेऽपि यथास्यादित्येवमर्थः ॥छ। नित्यं णः पन्थश्च ॥ ६।४।८९ ॥ [नित्यम् ] नित्य 'क्रियाविशेषणात्' (२।२।४१) अम् । 'समानादमोऽतः' (१।४।४६) अलुक् । [णः] ण प्रथमा सि । [पन्थश्च] पन्थ प्रथमा सि । च प्रथमा सि । [पान्थः, पान्था स्त्री] पथिन् । पन्थानं नित्यं याति = पान्थः । अनेन णप्र० → अ-पन्थादेशश्च । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ। [द्वैपन्थः, द्वैपन्था स्त्री] द्वौ पन्थानौ नित्यं याति । अनेन णप्र० → अ-पन्थादेशश्च । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [341]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy