SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३२७ [पाणविकः] पणवः पणववादनं शिल्पमस्य = पाणविकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [ मौरजिकः ] मुरजो मुरजवादनं शिल्पमस्य = मौरजिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [वैणिकः] वीणावादनं शिल्पमस्य = वैणिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । उत्पादनार्थवृत्तिभ्यस्त्वनभिधानान्न भवति । ते के शब्दाः ? व्याकरणकरणादिशिल्पमस्य वैयाकरणिकादयोऽमी । अत एव कुम्भकारादावभिधेये मृदङ्गकरणादिभ्य एव प्रत्ययः, न तु मृदङ्गादिशब्देभ्यः । केषुचिद् ग्रामेषु मृन्मया मृदङ्गा भवन्ति, तेषां कुम्भकारादुत्पत्तिः । [मार्दङकरणिकः] मृदङ्गकरणं शिल्पमस्य = मार्दङ्गकरणिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [वैणाकरणिकः] वीणाकरणं शिल्पमस्य = वैणाकरणिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। मड्डुक-झर्झराद् वाऽण् ॥ ६।४।५८ ।। [मड्डुकझर्झरात् ] मड्डुकश्च झर्झरश्च = मड्डुकझर्झरम्, तस्मात् । [वा] वा प्रथमा सि । [अण्] अण् प्रथमा सि । [माड्डुकः, माड्डुकिकः] मड्डुकवादनं शिल्पमस्य = माड्डुकः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे-माड्डकिकः । 'शिल्पम्' (६।४।५७) इकण्प्र० → इक। 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [झाझरः, झाझरिकः] झर्झरवादनं शिल्पमस्य = झार्झरः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पक्षे-झाझरिक इत्यत्र 'शिल्पम्' (६।४।५७) इत्यनेन इकण्प्र० → इक। 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छा। शीलम् ॥ ६।४।५९ ॥ [शीलम् ] शील सि-अम् । शीलं प्राणिनां स्वभावः । फलनिरपेक्षा प्रवृत्तिरिति यावत् । [आपूपिकः] अपूप । अपूपभक्षणं शीलमस्य = आपूपिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [शाष्कुलिकः] शष्कुली । शष्कुलीभक्षणं शीलमस्य = शाष्कुलिकः । अनेन इकण्प्र० → इक । ‘वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [327]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy