SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३१८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [पौर्वपदिकः] पूर्वं च तत् पदं च = पूर्वपदम् । पूर्वपदं गृह्णाति = पौर्वपदिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [औत्तरपदिकः] उत्तरं च तत् पदं च = उत्तरपदम् । उत्तरपदं गृह्णाति = औत्तरपदिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [आदिपदिकः] आदौ पदम् = आदिपदम् । आदिपदं गृह्णाति = आदिपदिकः । अनेन इकण्प्र० → इक । [आन्तपदिकः] अन्तं पदम् = अन्तपदम् । अन्तपदं गृह्णाति = आन्तपदिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [लालामिकः] 'ललण ग्रहणे' ( ) लल् । अनित्यो णिच् । लल्यते = ललः । 'स्थादिभ्यः कः' (५।३।८२) कप्र० → अ० । 'अम गतौ' (३९२) अम् । ललममति-प्राप्नोति = ललामः । 'अच्' (५।१।४९) अच्प्र० → अ । 'समानानां०' (१।२।१) दीर्घः । ललामं-प्रधानं गृह्णाति = लालामिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [प्रातिकण्ठिकः] कण्ठं कण्ठं प्रति = प्रतिकण्ठम् । 'योग्यता-वीप्सा-ऽर्थानतिवृत्ति-सादृश्ये' (३।१।४०) इति समासः । प्रतिकण्ठं गृह्णाति = प्रातिकण्ठिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अव्ययीभावसमासश्रयणादिह न भवति । व्याख्यानतो विशेषप्रतिपत्तिः । प्रतिगतः कण्ठं = प्रतिकण्ठः, तं गृह्णाति । 'प्रात्यव-परि-निरादयो०' (३।१।४७) समासः । [बहुपदं गृह्णाति ] ईषदपरिसमाप्तः पदः = बहुपदस्तं गृह्णाति ॥छ।। परदारादिभ्यो गच्छति ॥ ६।४।३८ ॥ [परदारादिभ्यः] परदार(रा) आदिर्येषां ते = परदारादयः, तेभ्यः = परदारादिभ्यः । पञ्चमी भ्यस् । [गच्छति ] गच्छतीति गच्छत्, तस्मिन् । [पारदारिकः] परेषां दाराः = परदाराः । यद्वा परे च ते दाराश्च = परदाराः । परदारान् गच्छति = पारदारिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र०। [गौरुदारिकः] गुरोर्दाराः = गुरुदाराः । गुरुदारान् गच्छति = गौरुदारिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। _ [गौरुतल्पिकः] गुरूणां तल्पं-शय्या = गुरुतल्पः । गुरुतल्पं गृह्णाति (गच्छति) = गौरुतल्पिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। [साभर्तृकिकः] सह भर्ना गच्छति = सभर्तृकः । 'ऋन्नित्यदितः' (७।३।१७१) कच्प्र० → क । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सहस्य सभावः । 'आत्' (२।४।१८) आप्प्र० → आ । सभर्तृकां गच्छति = साभर्तृकिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[318]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy