SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३१५ रक्षदुञ्छतोः ॥ ६।४।३० ॥ [ रक्षदुञ्छतोः ] रक्षश्च उञ्छंश्च = रक्षदुञ्छतौ, तयोः = रक्षदुञ्छतोः । [सामाजिकः] 'अञ्जू(ौ)प् व्यक्ति-म्रक्षण-गतिषु' (१४८८) अन् । समा(म)जनं = समाजः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० + अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । समाजं रक्षति = सामाजिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [सामवायिकः] 'वेंग् तन्तुसन्ताने' (९९२) वे, सम्पूर्व० । संवयन्ति जना अत्रेति समवायः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । समवायं रक्षति = सामवायिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [नागरिकः] नगरं रक्षति = नागरिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [सान्निवेशिकः] सन्निवेशं रक्षति = सान्निवेशिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।। [बादरिकः ] बदरम् । बदराण्युञ्छति-उच्चिनोति = बादरिकः । [श्यामाकिकः] श्यामाकमुञ्छति = श्यामाकिकः । [नैवारिकः] 'वृग्ट वरणे' (१२९४) वृ, निपूर्व० । निवियते इति नीवारः । 'नेषुः' (५।३।७४) घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । 'घञ्युपसर्गस्य बहुलम्' (३।२।८६) दीर्घः । नीवारानुञ्छति - उच्चिनोति = नैवारिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। पक्षि-मत्स्य-मृगार्थाद् जति ॥ ६।४।३१ ॥ [पक्षिमत्स्यमृगार्थात् ] पक्षी च मत्स्यश्च मृगश्च = पक्षिमत्स्यमृगाः । पक्षिमत्स्यमृगा अर्था यस्य सः = पक्षिमत्स्यमृगार्थस्तस्मात् । [घ्नति] हन्तीति नन्, तस्मिन् । [पाक्षिकः] पक्षिन् । पक्षिणो हन्ति = पाक्षिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'नोऽपदस्य तद्धिते' (७४।६१) इन्लुक् । प्रथमा सि । 'सो रुः' ((२।१।७२) स० → र० । [मात्स्यिकः] मत्स्यान् हन्ति = मात्स्यिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' ((२।१।७२) स० - र० । [मार्गिकः] मृगान् हन्ति = मार्गिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' ((२।१।७२) स० → र० । [शाकुनिकः ] शकुनीन् हन्ति = शाकुनिकः । [मायूरिकः] मयूरान् हन्ति = मायूरिकः । [ तैत्तिरिकः] तित्तिरीन् हन्ति = तैत्तिरिकः । [ मैनिकः] मीनान् हन्ति = मैनिकः । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st • 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [315]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy