SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३०९ [पर्पिकः, पर्पिकी ] पर्पण-चापकेन चरति = पर्पिकः । अनेन इकटप्र० → इक । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी । [अश्विकः, अश्विकी] अश्वेन चरति = अश्विकः । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी ॥छ।। पदिकः ॥ ६।४।१३ ॥ [पदिकः ] पदिक प्रथमा सि । [पदिकः ] पाद । पादाभ्यां चरति = पदिकः । अनेन इकटप्र० → इक - पादशब्दस्य पद् इति निपात्यते । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छ।। श्वगणाद् वा ।। ६।४।१४ ।। [श्वगणात्] शुनां गणः = श्वगणः, तस्मात् । [वा] वा प्रथमा सि । [श्वगणिकः, श्वगणिकी, श्वागणिकः, श्वागणिकी] श्वन्-गण । शुनां गणः = श्वगणः । श्वगणेन चरति = श्वगणिकः । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । अन्यत्र 'अणजेयेकण्' (२।४।२०) ङी । पक्षे-'चरति' (६।४।११) इत्यनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । अन्यत्र 'अणजेयेकण-नञ्' (२।४।२०) ङी । 'वादेरिति' (७।४।१०) इति वात्प्रागौर्न भवति ॥छ।। वेतनादेर्जीवति ॥ ६।४।१५ ॥ [ वेतनादेः ] वेतनं आदिर्यस्य सः = वेतनादिः, तस्मात् । [जीवति ] 'जीव प्राणधारणे' (४६५) । जीव् । जीवतीति जीवत् । 'शत्रनशा०' (५।२।२०) शतृप्र० → अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । तस्मिन् । [वैतनिकः] वेतनेन जीवति = वैतनिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [वाहिकः] वाहेन जीवति = वाहिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।। [अर्द्धवाह] अर्द्ध वाहस्य-अर्द्धस्य वहनं वा = अर्द्धवाह । [उपनिजस्त ] उप-नि 'जसूच् मोक्षणे' (१२२३) जस् । उपनिजस्यति स्म = उपनिजस्त । 'गत्यर्थाऽकर्मक०' (५।१।११) क्तप्र० → त । [स्फिज] 'स्फायैङ् वृद्धौ' (८०४) स्फाय । स्फायते = स्फिज । बाहुलकात् इजप्र० डित् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ॥छ।। व्यस्ताच्च क्रय-विक्रयादिकः ॥ ६।३।१६ ॥ [व्यस्तात् ] व्यस्त पञ्चमी ङसि । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [309]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy