SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३०२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [सैन्धवः] सिन्धुराभिजनो निवासोऽस्य = सैन्धवः । अनेन अप्र० → अ । वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [वार्णवः] वर्गुराभिजनो निवासोऽस्य सः = वार्णवः । अनेन अप्र० → अ । वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । केचित् तक्षशिलादिभ्योऽञ् ब्रुवते तन्न, बाधकप्रत्ययान्तराप्राप्त्या । 'प्राग् जितादण्' (६।१।१३) इत्यनेन एव सिद्धत्वात् ॥छ। सलातुरादीयण ॥ ६।३।२१७ ।। [सलातुरात्] सलातुर पञ्चमी ङसि । [ईयण] ईयण प्रथमा सि । [सालातुरीयः पाणिनिः] सलातुर आभिजनो निवासोऽस्य सः = सालातुरीयः । अनेन ईयणप्र० → ईय । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । पाणिनिः । सालैस्ततं = सालततं, तच्च तत्पुरं च = सालतत्पुरम् । 'पृषोदरादयः' (३।२।१५५) सलातुरनिपातः ॥छ।। तूदीवर्मत्या एयण ॥ ६।३।२१८ ॥ [तूदीवर्मत्याः] तूदी च वर्मती च = तूदीवर्मती, तस्याः । [एयण् ] एयण प्रथमा सि । [तौदेयः] 'तुदीत् व्यथने' (१३१५) तुद् । तुदतीति । 'नाम्युपान्त्य-प्री-कृगृ-ज्ञः कः' (५।१५४) कप्र० → अ । बाहुलकाद्दीर्घः । गौरादिपाठात्' ङी । तूदी आभिजनो निवासोऽस्य सः = तौदेयः । अनेन एयणप्र० - एय । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।। [वार्मतेयः] वर्मन् 'तनूयी विस्तारे' (१४९९) तन् । वर्माणि तनोति । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'गौरादि०' (२।४।१९) ङी । अथवा वारया: पानीयमस्यास्ति । 'तदस्याऽस्त्य०' (७२।१) मतुप्र० → अत् । 'अधातूदृदितः' (२।४।२) ङी । वा(व)र्मती आभिजनो निवासः (अस्य) = वार्मतेयः । अनेन एयणप्र० → एय । ‘वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।। गिरेरीयोऽस्त्राजीवे ॥ ६।३।२१९ ॥ [गिरेरीयः] गिरि पञ्चमी ङसि । ईय प्रथमा सि ।। [अस्त्राजीवे] अस्त्रमाजीवो जीविका यस्य सः = अस्त्राजीवः, तस्मिन् । [हृदगोलीयः] हृदां गोल इव = हृदुगोलः । हृदगोल: पर्वत आभिजनो निवासोऽस्यास्त्राजीवस्य सः = हृदगोलीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [भोजकटीयः] भोजकटः पर्वत आभिजनो निवासोऽस्यास्त्राजीवस्य सः = भोजकटीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [302]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy