SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । = यलुप् । वृद्धिः । 'डित्यन्त्यस्वरादेः' (२|१|११४) उलोपः । पाण्ड्यं पाण्ड्यौ, पाण्डून् वा भजति पाण्डवकः । अनेन 'बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० अक पाण्डुरादेशश्च 'अस्वयम्भुवोऽव्' ( ७४७०) अव् प्रथमा सि 'सो रु: ' (२|१|७२) स०र० । २९८ [ आङ्गकः] अङ्गानां राष्ट्रस्य राजानौ राजानः । एवमग्रेऽपि । अङ्गस्य राजा, अङ्गस्य राज्ञोऽपत्यं वा । 'पुरुमगध०' (६ | १|११६) अण्प्र० । यत्र बहुत्वे 'बहुष्वस्त्रियाम् ' ( ६।१।१२४) अण्लुप् । वृद्धि: । 'अवर्णेवर्णस्य' (७७४६८) अलुक् । आङ्गं आ (अ) ङ्गान् वा भजति आङ्गकः । 'बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० अक अङ्गदेशच । वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । । । = [ वाङ्गकः ] वङ्गानां राष्ट्रस्य राजा, वङ्गस्य राज्ञोऽपत्यं वा । 'पुरु- मगध - कलिङ्ग ०' (६।१।११६) अण्प्र० । यत्र बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । वाङ्गं, वाङ्गौ, वङ्गान् वा भजति = वाङ्गकः । 'बहुविषयेभ्यः' (६|३|४५) अकञ्प्र० अक वङ्गदेशश्च वृद्धि: । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [पाञ्चालकः ] पञ्चालानां राष्ट्रस्य राजा, राजानौ राजानः पञ्चालस्य राजोऽपत्यं अपत्ये अपत्यानि वा पाञ्चाल:, पाञ्चालौ, पञ्चालाः । 'राष्ट्र-क्षत्रियात् ० ' ( ६ । १ । ११४) अञ्प्र० । बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४) अञ्लुप् । वृद्धिः । 'अवर्णेवर्णस्य' (७७४/६८) अलुक् । पाञ्चालं, पाञ्चाली, पञ्चालान् वा भजति पाञ्चालकः । 'बहुविषयेभ्यः ' (६|३|४५) अकञ्प्र० अक पञ्चाल आदेशश्च वृद्धिः । 'अवर्णेवर्णस्य (७|४|६८) अलुक् । । । [ वैदेहकः ] विदेहानां राष्ट्रस्य राजा, राजानौ राजानः । विदेहस्य राज्ञोऽपत्यं अपत्ये अपत्यानि वा । 'राष्ट्रक्षत्रियात्०' (६।१।११४) अप्र० । बहुत्वे 'बहुष्वस्त्रियाम्' (६|१|१२४) अवलुप् । वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । वैदेहं वैदेहौ, विदेहान् वा भजति वैदेहकः 'बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० अक विदेह आदेशश्च वृद्धिः ऐ 'अवर्णेवर्णस्य' (७७४६८) अलुक् । I = [ औदुम्बरकः] उदुम्बराणां राष्ट्रस्य राजा, उदुम्बरस्य राज्ञोऽपत्यं वा = औदुम्बरि: । 'साल्वांश प्रत्यग्रथकलकूटाऽश्मकादिञ्' (६।१।११७) इक्प्र० । बहुष्वस्त्रियाम्' (६।१।१२४) अब्लुप् । उदुम्बरान् भजति । 'बहुविषयेभ्यः' (६।३।४५) अक० अक वृद्धिः औ 'अवर्णेवर्णस्य' (७|४६८) अलुक् । प्रथमा सि 'सो रु' (२११७२) 1 1 स०र० । [ तैलखलकः ] तिलखलानां राष्ट्रस्य राजा, तिलखलस्य राज्ञोऽपत्यं वा = तैलखलि: । 'साल्वांश - प्रत्यग्रथ०' (६।१।११७) इञ्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४ ) इञ्लुप् । तिलखलान् भजति तैलखलकः । ‘बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० अक वृद्धिः ऐ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् प्रथमा सि । सो रु' (२२११७२) = स०र० । [ कौरवकः, कौरव: ] कुरु कुरोरपत्यं कुरूणां राष्ट्रस्य राजा कौरव्यः 'दु-नादि०' (६|१|११८) ज्यप्र० → य वृद्धिः औ 'अस्वयम्भुवोऽब्' (७४।७०) अव् । कौरव्यं भजति इत्यनेन अकञ्प्र० । अथवा 'कुरु-युगन्धराद् वा (६।३१५३) अकञ्प्र० अक वृद्धिः औ मनुष्यवाचिनः 'कच्छादेर्नृ नृस्थे' (६|३|५५) अस्वयम्भुवोऽव्' (७४७०) अव् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [298]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy