SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ कुलालादेरकञ् ॥ ६।३।१९४ ॥ [कुलालादेः] कुलाल आदिर्यस्य सः = कुलालादिः, तस्मात् । [अकञ्] अकञ् प्रथमा सि । [कौलालकम् ] कुलालेन कृतं = कौलालकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [वारुटकम् ] वरुटेन कृतं = वारुटकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । नाम्नीत्यभिधेयनियमार्थम्, तेन घटघटीशरावोदञ्चनाद्येव भाण्डं कौलालकम्, न यत्किञ्चित्कुलालकृतम् । शूर्पपिटकपटलिकापिच्छिकाच्छज्जिकेति प्रसिद्धिः द्येव भाण्डं वारुटकम्, नान्यत् । एवमन्यत्राप्यभिधेयनियमः । [सिरन्ध्र] 'पिंगट बन्धने' (१२८७) षि । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सि । सिनोतीति । 'सु-सितनि-तुसेर्दीर्घश्च वा' (उणा० २०३) तप्र० । सितानि रन्ध्राणि यस्य सः = सितरन्ध्रः । पृषोदरादित्वात् तस्य लोपः । अदासो दासवृत्तिर्यः स सिरन्ध्र इति स्मृतः ॥छ।। सर्वचर्मण ईनेनौ ।। ६।३।१९५ ॥ [सर्वचर्मणः ] सर्वचर्मन् पञ्चमी ङसि । [ईनेनौ] ईनश्च ईनञ् च = ईनेनौ । [सर्वचर्मीणः, सार्वचक्षणः] सर्वचर्मणा कृतः = सर्वचर्मीणः । अनेन ईनप्र० । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लुक् । एवम्-सार्वचर्मीणः । अनेन ईनप्र० → ईन । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लुक् ॥छ। उरसो याऽणौ ॥ ६३।१९६ ॥ [उरसः] उरस् पञ्चमी डसि । [याऽणौ] यश्च अण् च = याऽणौ । [ उरस्यः, औरसः] उरसा कृतः = उरस्यः, औरसः पुत्रः । अनेन य-अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। छन्दस्यः ॥ ६।३।१९७ ।। [छन्दस्यः] छन्दस्य प्रथमा सि । [छन्दस्यः] छन्दस् । छन्दसा इच्छया वा कृतः = छन्दस्यः । अनेन यप्र० । न तु प्रवचनेन वेदेन गायत्र्यादिना वा । [एष वै सप्तदशाक्षरश्छन्दस्यो यज्ञमनुविहितः] एव(ष) पूर्वोक्ते मीलितः सन् मन्त्रः । वै इति टक्कभाषायां वाक्यालंकारे । सप्तदशाक्षरश्छन्दस्यो मन्त्रः । छन्दस् मण्ड्यते । छन्द एव = छन्दस्यो मन्त्रः । अनेन स्वार्थे यप्र० । यज्ञमनुलक्षीकृत्य विहितो अनुगत इत्यर्थः । यथा अनुष्टुबादिरक्षरसमूहश्छन्दस्तथैषां सप्तदशानामक्षराणां समूहश्छन्दस्य उच्यते ॥छ।। Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [291]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy