SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । वहेस्तुरिश्चादिः ॥ ६।३।१८० ॥ [वहेस्तुरिश्चादिः ] वहि पञ्चमी ङसि । तृ पञ्चमी उसि । इ प्रथमा सि । च प्रथमा सि । आदि प्रथमा सि । [सांवहित्रम् ] सम् 'वहीं प्रापणे' (९९६) वह् । संवहतीति संवोढा । 'णक-तृचौ' (५।१।४८) तृचप्र० → तृ । संवोढुं सारथेरिदं = सांवहित्रम् । अनेन अप्र० → अ - तृशब्दस्य चादिः इश्च । वृद्धिः । 'इवर्णादेरस्वे०' (शश२१) रत्वम् । सि-अम् ॥छ।। तेन प्रोक्ते ॥ ६।३।१८१ ॥ [तेन] तेन पञ्चमी ङसि । सूत्रत्वाल्लुप् । [प्रोक्ते ] प्रोक्त सप्तमी ङि । प्रकर्षेण व्याख्यानं(त)-अध्यापितं वा = प्रोक्तम् । [भाद्रबाहवानि उत्तराध्ययनानि] भद्रबाहु । भद्रबाहुना प्रोक्तानि = भाद्रबाहवानि । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् । उत्तर 'इंङ्क अध्ययने' (११०४) इ, अधिपूर्व० । उत्तरे-उत्कृष्ट काले अधीयते = उत्तराध्यनानि । 'भुजि-पत्यादिभ्यः कर्माऽपादाने' (५।३।१२८) अनटप्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'इवर्णादेरस्वे०' (१।२।२१) यत् । उभयत्र जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१२४/६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । प्रतीतं एकं तेन बुद्धाः । आदिशब्दाच्चतुर्दशपूर्वधराः - चतुर्दशपूर्वज्ञाः - गणधरप्रत्येकबुद्धादिभिः कृतानि-तेन व्याख्यातानीत्यर्थः । [याज्ञवल्कानि ब्राह्मणानि] यज्ञवल्क । यज्ञवल्कस्यापत्यं = याज्ञवल्क्यम् । 'गर्गादेर्यब्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । याज्ञवल्क्येन प्रोक्तानि = याज्ञवल्कानि । अनेन 'शकलादेर्यजः' (६।३।२७) अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । प्र० जस् । ब्राह्मणेति नाम ग्रन्थानि । [पाणिनीयम् ] पाणिनि । पाणिनिना प्रोक्तं = पाणिनीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् । [आपिशलम् ] अपिशलस्यापत्यम् = आपिशलिः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । आपिशलिना प्रोक्तम् = आपिशलम् । 'वृद्धेञः' (६।३।२८) अप्र० - अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् । [काशकृत्स्नम् ] कस(श)कृत्स्नस्यापत्यं = काशकृत्स्निः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । काशकृत्स्निना प्रोक्तं = काशकृत्स्नम् । 'वृद्धेञः' (६।३।२८) अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । [औशनसम्] उशनस् । उशनसा प्रोक्तम् = औशनसम् । 'उत्सादेरज्' (६।१।१९) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । सि-अम् । [बार्हस्पत्यम् ] बृहस्पतिना प्रोक्तं = बार्हस्पत्यम् । 'अनिदम्यणपवादे च०' (६।१।१५) ज्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ॥छ।। Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st • 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[282]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy