SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ २७३ [बाभ्रवशालङ्कायनिका] बभ्रु । बभ्रोरपत्यानि = बाभ्रवाः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धि: स्वरेष्वादेफ्रिति०' (७।४।१) 'वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । शलङ्कोरपत्यानि वृद्धानि = शालङ्कायनाः । 'क्रोष्ट-शलङ्कोर्लुक् च' (६।१।५६) आयनण्प्र० → आयन-उकारस्य च लुक् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । बाभ्रवाणां शालङ्कायनानां च वैरं = बाभ्रवशालङ्कायनिका । अनेन अकल्प्र० → अक । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत् - तत्०' (२।४।१११) इ ।। [काकोलूकिका] काकाश्च उलूकाश्च = काकोलूकम् । काकोलूकस्य इदं वैरं = काकोलूकिका । [श्वावराहिका ] श्वन्-वराह । श्वा च वराहश्च = श्वावराहम् । 'शुनः' (३।२।९०) आत्वम् । श्वावराहस्य इदं वैरं = श्वावराहिका । [श्वशृगालिका] श्वा च शृगालश्च = श्वशृगालम् । श्वशृगालस्य इदं वैरं = श्वशृगालिका । [अहिनकुलिका ] अहयश्च नकुलाश्च = अहिनकुलम् । अहिनकुलस्य इदं वैरं = अहिनकुलिका । [ दैवासुरम् ] देवाश्च असुराश्च = देवासुराः(रम्), तेषामिदं वैरं = दैवासुरम् । 'तस्येदम्' (६।३।१६०) अण्प्र० →→ अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [राक्षोऽसुरम् ] रक्षस्-असुर । रक्षांसि च असुराश्च = रक्षोऽसुराः । तेषामिदं वैरं = राक्षोऽसुरम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ॥छ।। नटान्नृत्ते ज्यः ॥ ६।३।१६५ ॥ [नटात् ] नट पञ्चमी ङसि । [नृत्ते ] नृत्त सप्तमी ङि । [ज्यः] ज्य प्रथमा सि । [नाट्यम् ] नटानामिदं नृत्यं = नाट्यम् । अनेन ञ्यप्र० → य । ‘वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।। छन्दोगौक्थिक-याज्ञिक-बढचाच्च धर्मा-ऽऽम्नाय-सङ्ग्रे ॥ ६।३।१६६ ॥ [छन्दोगौक्थिकयाज्ञिकब चात् ] छन्दोगश्च औक्थिकश्च याज्ञिकश्च बढचश्च = छन्दोगौक्थिकयाज्ञिकब चम्, तस्मात् । [च] च प्रथमा सि । [धर्माऽऽम्नायसने] धर्मश्च आम्नायश्च सङ्घश्च = धर्माऽऽम्नायसङ्घम्, तस्मिन् । [छान्दोग्यम् ] छन्दस् कैं (३६) - 'मैं शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य' (४।२।१) गा । छन्दो गायन्ति = छन्दोगाः । 'आतो होऽह्वा-वा-मः' (५।११७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अन्त्यस्वरादिलोपः । छन्दोगानां धर्म:-आम्नाय:-सङ्घो वा = छान्दोग्यम् । अनेन ब्यप्र० → य । 'वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [273]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy