SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ २७१ [श्यामगवीयः] श्यामा गौर्यस्य सः = श्यामगुः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । श्यामगवस्य (श्यामगोः) इदं(अयं) = श्यामगवीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [पाटलिपुत्रकः प्राकारः] पाटलिपुत्रस्यायं = पाटलिपुत्रकः । 'रोपान्त्यात्' (६।३।४२) अकप्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छ।। हल-सीरादिकण् ॥ ६।३।१६१ ।। [हलसीरात् ] हलश्च सीरश्च = हलसीरम्, तस्मात् । [इकण्] इकण् प्रथमा सि । [ हालिकम् ] हलस्येदं = हालिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [सैरिकम् ] सीरस्येदं = सैरिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।। समिध आधाने टेन्यण् ॥ ६।३।१६२ ॥ [समिधः] समिध् पञ्चमी ङसि । [आधाने] आधान सप्तमी ङि । [टेन्यण् ] टेन्यण् प्रथमा सि । [सामिधेन्यो मन्त्रः] आ 'डुधांग्क् धारणे च' (११३९) धा । आधीयते येन समित् तदाधानम् । समिध् । समिधामाधानो मन्त्रः = सामिधेन्यः । अनेन टेन्यणप्र० → एन्य । वृद्धिः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०, मन्त्रः । [सामिधेनी ऋक् ] समिधामाधानी ऋक् = सामिधेनी । अनेन टेन्यणप्र० → एन्य । वृद्धिः । 'अणजेयेकण्०' (२।४।२०) ङी । [सामिधेनीरन्वाह] समिधामाधान्यः = सामिधेन्यः, ताः = सामिधेनाः(नीः) । अनेन टेन्यणप्र० → एन्य । वृद्धिः । 'अणजेयेकण्' (२।४।२०) ङी । द्वितीया शस् । ‘शसोऽता०' (१।४।४९) दीर्घः । 'सो रुः' (२।१।७२) स० → र० । अनु-पश्चात् । आह एवमग्रेऽपि ॥छ।। विवाहे द्वन्द्वादकल् ॥ ६।३।१६३ ।। [विवाहे] विवाह सप्तमी ङि । [द्वन्द्वात् ] द्वन्द्व पञ्चमी ङसि । [अकल्] अकल् प्रथमा सि । [अत्रिभरद्वाजिका] अत्रि । अरपत्यानि = अत्रयः । 'इतोऽनिञः' (६।१।७२) एयणप्र० । भरद्वाजस्यापत्यानि वृद्धानि = भरद्वाजाः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० । 'भृग्वङ्गिरस-कुत्स-वशिष्ठ-गोतमा-ऽत्रेः' (६।१।१२८) एयण्लुप् । 'यत्रोऽश्यापर्णान्त०' (६।१।१२६) अञ्लुप् । अत्रीणां भरद्वाजानां विवाहः = अत्रिभरद्वाजिका । अनेन Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [271]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy