SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ २५७ भवम् = आन्तरगारम् । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । [आन्तःपुरम् ] अन्तर्गतं पुरस्य = अन्तःपुरम् । अन्तःपुरे भवम् = आन्तःपुरम् । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । सि-अम् । [आन्तःकरणम् ] अन्तःस्थं करणस्य = अन्तःकरणम् । अन्तःकरणे भवम् = आन्तःकरणम् । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।। पर्यनोामात् ॥ ६।३।१३८ ॥ [पर्यनोः] परिश्च अनुश्च = पर्यनुस्तस्मात् । [ग्रामात् ] ग्राम पञ्चमी ङसि । [पारिग्रामिकः] ग्रामात् परि = परिग्रामम् । 'पर्यपा-ऽऽङ्-बहिर पञ्चम्या' (३।१।३२) इत्यादिना समासः । परिग्रामे भवः = पारिग्रामिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [आनुग्रामिकः ] ग्रामस्य अनु-समीपम् = अनुग्रामम् । 'विभक्ति-समीप-समृद्धि-व्यृद्ध्यर्थाभावा०' (३।१।३९) इत्यादिना समासः । अनुग्रामे भवः = आनुग्रामिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [पारिग्रामः] परिगतो ग्रामः = परिग्रामः । 'प्रात्यव-परि०' (३।१।४७) इत्यादिना समासः । परिग्रामे भवः = पारिग्रामः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [आनुग्रामः ] अनुगतो ग्रामः = अनुग्रामः । अनुग्रामे भवः = आनुग्रामः । 'भवे' (६।३।१२३) अण्प्र० → अ। 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७ र० ॥छा। उपाज्जान-नीवि-कर्णात प्रायेण ।। ६।३।१३९ ।। [ उपात्] उप पञ्चमी ङसि । [जानुनीविकर्णात् ] जानुश्च नीविश्च कर्णश्च = जानुनीविकर्णम्, तस्मात् । [ प्रायेण] प्रायेण प्रथमा सि । सूत्रत्वाल्लुप् । [औपजानुकः सेवकः] जानुनः समीपम् = उपजानु । प्रायेणोपजानु भवति = औपजानुकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (७।४।७१) इलुक् । सेवकः । [औपजानुकं शाटकम् ] जानुनः समीपम् = उपजानु । प्रायेणोपजानु भवति = औपजानुकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'ऋवर्णोवर्ण०' (७४/७१) इलुक् । सि-अम् । शाटकम् । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [257]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy