SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ २५३ [बाहुबलिवर्गीणः, बाहुबलिवर्यः, बाहुबलिवर्गीयः] बाहु-बल । बाहोर्बलं = बाहुबलम् । बाहुबलमत्रास्ति = बाहुबली । 'बाहूर्वादेर्बलात्' (७।२।६६) इन्प्र० । 'अवर्णेवर्णस्य' (७४६८) अलुक् । अथवा बाहुबलिशब प्रकृत्यन्तरमस्ति । बाहुबलिनो बाहुबलेर्वा वर्गः = बाहुबलिवर्गः । बाहुबलिवर्गों( ) भवः = बाहुबलिवर्गीणः, बाहुबलिवर्यः, बाहुबलिवर्गीयः । अनेन ईन-य-ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'र-वर्णान्नो ण' (२।३।६३) न० → ण० । [युष्मद्वर्गीणः, युष्मद्वर्यः, युष्मद्वर्गीयः ] युष्मद्-वर्ग । युष्माकं वर्गः = युष्मद्वर्गः । युष्मद्वर्गे भवः = युष्मद्वर्गीणः, युष्मद्वर्यः, युष्मद्वर्गीयः । अनेन ईन-य-ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'र-घृवर्णान्नो ण०' (२।३।६३) न० → ण । [अस्मद्वर्गीणः, अस्मद्वर्ग्यः, अस्मद्वर्गीयः] अस्मद्-वर्ग । अस्माकं वर्गः = अस्मद्वर्गः । अस्मद्वर्गे भवः = अस्मद्वर्गीणः, अस्मद्वर्यः, अस्मद्वर्गीयः । अनेन ईन-य-ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'र-घुवर्णान्नो ण' (२।३।६३) न० → ण० । [कवर्गीयः] कवर्गे भवः = कवर्गीयः । 'वर्गान्तात्' (६।३।१२८) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० ॥छ।। दृति-कुक्षि-कलशि-वस्त्यहेरेयण ॥ ६।३।१३० ।। [दृतिकुक्षिकलशिवस्त्यहः ] दृतिश्च कुक्षिश्च कलशिश्च वस्तिश्च अहिश्च = दृतिकुक्षिकलशिवस्त्यहि, तस्मात् । [ एयण् ] एयण् प्रथमा सि । [दार्तेयं जलम् ] दृतौ - चर्मखल्वायां भवं = दार्तेयम् । अनेन एयणप्र० → एय । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । जलम् । [कौक्षेयो व्याधिः] कुक्षि । कुक्षौ-देहांशे भवः = कौक्षेयः । अनेन एयणप्र० → एय । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक्, व्याधिः ।। [कालशेयं तक्रम्] कलश इवाचरति । 'कर्तुः क्विप्०' (३।४।२५) क्विप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लुक् । 'पदि-पठि-पचि-स्थलि-हलि-कलि-बलि-वलि-वल्लि-पल्लि-कटि-चटि-वटि-वधि-गाध्यचि-वन्दि-नन्द्यविवशि-वाशि-काशि-छर्दि-तन्त्रि-मन्त्रि-खण्डि-मण्डि-चण्डि-यत्यजि-मस्यसि-वनि-ध्वनि-सनि-गमि-तमि-ग्रन्थि-श्रन्थिजनि-मण्यादिभ्यः' (उणा० ६०७) इप्र० । 'अतः' (४।३।८२) अलुक् । 'इतोऽक्त्यर्थात्' (२।४।३२) ङी । कलश्यांमन्थन्यां भवं = कालशेयम् । अनेन एयणप्र० → एय । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) ईलुक् । सि-अम् । तक्रम् । [वास्तेयं पुरीषम्] वस्तौ-पुरीषनिर्गमरन्ध्रे भवं = वास्तेयम् । अनेन एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । पुरीषम् । [आहेयं विषम् ] अहौ भवम् = आहेयम् । अनेन एयणप्र० → एय । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् । विषम् ॥छ।। आस्तेयम् ॥ ६।३।१३१ ॥ [आस्तेयम् ] आस्तेय सि-अम् । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [253]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy