SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ [पाण्यः] पाणौ भवः = पाण्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [पद्यः] पादयोर्भवः = पद्यः । अनेन यप्र० । 'हिम-हति-काषि-ये पद्' (३।२।९६) पद् । [तालव्यः] तालु । तालौ भवः = तालव्यः । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [ मुख्यः ] मुखे भवः = मुख्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [जघन्यः] जघने भवः = जघन्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [कण्ठतालव्यः] कण्ठश्च तालुश्च(तालु च) = कण्ठतालु । कण्ठतालुनि भवः = कण्ठतालव्यः । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [दन्तोष्ठ्यः ] दन्तश्च ओष्ठश्च = दन्तोष्ठः । दन्तोष्ठे भवः = दन्तोष्ठ्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [मुख्यः ] मुख । सेनाया यन्मुखं तत्र भवः = मुख्यः । अनेन यप्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [जघन्यः] जघन । सेनाया यज्जघनं तत्र भवः = जघन्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । [वंश्यः] वंशोऽन्वयस्तत्र भवः = वंश्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [अनुवंश्यः] अनुगतो वंशोऽनुवंशः, तत्र भवः = अनुवंश्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ॥छ।। नाम्न्युदकात् ॥ ६।३।१२५ ॥ [नाम्नि ] नामन् सप्तमी ङि । 'ई-ङौ वा' (२।१।१०९) अलोपः । [ उदकात् ] उदक पञ्चमी ङसि । 'डे-ङस्योर्या-ऽऽतौ' (१।४।६) ङसि० → आत् । [ उदक्या रजस्वला] उदकेषु भवा = उदक्या । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । रजस्वला ऋतुमती उच्यते । [औदको मत्स्यः ] उदके भवः = औदकः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । मत्स्यः ॥छ।। मध्याद दिनण-णेया मोऽन्तश्च ।। ६।३।१२६ ।। [ मध्यात् ] मध्य पञ्चमी ङसि । [दिनण्णेयाः] दिनण् च णश्च ईयश्च = दिनण्णेयाः । [मोऽन्तश्च] म प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अन्त प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । च प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [251]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy