SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २४४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [मृगशिराः, मार्गशीर्षः ] स्वमते मृगशिरः क्लीबम् । गौडस्तु स्त्रियाम् । मृगशिरसा चन्द्रयुक्तया युक्तः कालोऽपि = मृगशिराः । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । "लुप् त्वप्रयुक्ते" अण्लुप् । मृगशिरसि जातः = मृगशिराः, मार्गशीर्षः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन अण्लुप् । प्रथमा सि । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'सो रुः' (२।१।७२) स० → र० । 'शीर्षः स्वरे तद्धिते' (३।२।१०३) शिरस्० → शीर्षदेशः । यत्र अण् न लुप् तत्र देशः कार्यः । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । [अश्विनः, अश्विनी] अश्विनीभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि = अश्विनः । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । अश्विनीषु जातः = अश्विनः, अश्विनी । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन नित्यं लुप् । 'ङ्यादेर्गौण०' (२।४।९५) ङीनिवृत्तिः । पुनरेव 'गौरादिभ्यो मुख्यान्ङी:' (२।४।१९) ङी । [राधः, राधा ] राधया चन्द्रयुक्तया युक्तः कालोऽपि = राधा । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । राधासु जातः = राधः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन नित्यं लुप् । 'ङ्यादेौण०' (२।४।९५) आप्निवृत्तिः । पुनरेव आप् । [श्रवणः, श्रवणा] श्रवणेन चन्द्रयुक्तेन युक्तः कालोऽपि = श्रवणः । श्रवणेन चन्द्रयुक्तेन युक्ता रात्रिरपि = गा-ऽश्वत्थान्नाम्न्यः ' (६।२।८) अप्र० । 'अवर्णवर्णस्य' (७/४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । श्रवणे जातः, श्रवणायां जाता वा । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् । [उत्तरः, उत्तरा] उत्तरानक्षत्रं स्त्रीत्वे वर्त्तते । उत्तरया चन्द्रयुक्तया युक्तः कालोऽपि = उत्तरा । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । उत्तरायां जातः - जाता वा । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् । क्वचिन्न भवति [माघः] मघाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि मघा । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । "लुप् त्वप्रयुक्ते" अण्लुप् । मघासु जातः = माघः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । [आश्वत्थः] अश्वत्थो मुहूर्त्तः - अश्विनी वा कथ्यते । अश्वत्थेन मुहूर्तेन चन्द्रयुक्तेन युक्तो मासोऽश्वत्थः । 'श्रवणाऽश्वत्थान्नाम्न्यः' (६।२।८) अप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । अश्वत्थे भवः = आश्वत्थः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [प्रोष्ठपादः] प्रोष्ठो गौस्तस्येव पादौ यासां ताः । 'सुप्रात-सुश्व-सुदिव-शारिकुक्ष-चतुरस्त्रैणीपदा-ऽजपद-प्रोष्ठपदभद्रपदम्' (७।३।१२९) डप्र० - पददेशः । प्रोष्ठपद 'आत्' (२।४।१८) आप्प्र० → आ । प्रोष्ठपदाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि प्रोष्ठपदा । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । प्रोष्ठपदासु जातः = प्रोष्ठपादः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'प्रोष्ठ-भद्राज्जाते' (७।४।१३) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । - [भद्रपादः] भद्राणि पदानि यस्यां सा = भद्रपदा । भद्रपदाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि = भद्रपदा । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । भद्रपदासु जातः = भद्रपादः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'प्रोष्ठ-भद्राज्जाते' (७।४।१३) इत्यनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st • 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[244]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy