SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । नाम्नि शरदोऽकञ् ॥ ६।३।१०० ॥ [नाम्नि ] नामन् सप्तमी ङि । [शरदः ] शरद् पञ्चमी ङसि । [अकञ्] अकञ् प्रथमा सि । प्रकृतिप्रत्ययसमुदायश्चेत् कस्यचिन्नाम भवति । ऋत्वणोऽपवादः 'भर्तु-सन्ध्यादेरण' (६।३।८९) । [शारदका दर्भाः, मुद्गा वा] शरद् । शरदि जाताः = शारदकाः । अनेन अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । प्र० जस् । दर्भा मुद्गा वा । 'दर्भविशेषाणां मुद्गविशेषाणां चेयं संज्ञा । [शारदं सस्यम् ] शरदि जातम् । जाते 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । सि-अम् । सस्यम् ॥छ।। सिन्ध्वपकरात् का-ऽणौ ।। ६।३।१०१ ।। [सिन्ध्वपकरात्] सिन्धुश्च अपकरश्च = सिन्ध्वपकरम्, तस्मात् । [काऽणौ] कश्च अण् च = काऽणौ । सिन्धोः 'कच्छादेर्नु-नृस्थे' (६।३।५५) अकञ्, 'कोपान्त्याच्चाऽण' (६।३।५६) अण् एतयोरपवादः । अपकराच्चौत्सर्गिकाणोपवादः । [सिन्धुकः, सैन्धवः] सिन्धौ जातः = सिन्धुकः, सैन्धवः । अनेन क-अण्प्र० → अ । वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [अपकरकः, आपकरः] कचैर्वरः = कचवरः । अपकरे-कचवरे जातः = अपकरकः, आपकरः । अनेन क-अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [सैन्धवको मनुष्यः] सिन्धुषु जातः = सैन्धवकः । 'कच्छादेर्नु-नृस्थे' (६।३।५५) अकञ्प्र० → अक । वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । मनुष्यः । नाम्नीत्यधिकार: ‘कालाद् देये ऋणे' (६।३।११३) इति सूत्रं यावत् ॥छ।। पूर्वाह्णा-ऽपराणा-ऽऽर्द्रा-मूल-प्रदोषा-ऽवस्करादकः ॥ ६।३।१०२ ॥ [पूर्वाणाऽपराणाऽऽामूलप्रदोषाऽवस्करात् ] पूर्वाह्णश्च अपराह्णश्च आर्द्रा च मूलश्च प्रदोषश्च अवस्करश्च = पूर्वाह्णाऽपराह्णाऽऽर्द्रामूलप्रदोषाऽवस्करम्, तस्मात् । [अकः] अक प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (११३५३) विसर्गः । [पूर्वाणकः] पूर्वमह्नः = पूर्वाणः । 'सर्वां-ऽश-संख्या-अव्ययात्' (७।३।११८) अट्समासान्तः - अह्नदेशश्च । पूर्वाणे जातः = पूर्वाह्णकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अत्र 'वर्षा-कालेभ्यः' (६।३।८०) इकण, 'पूर्वाणा-ऽपराह्णात् तनट' (६।३।८७) तनट एतयोर्द्वयोरपवादः । [अपराणकः] अपरमह्नः = अपराणः । 'सर्वां-ऽश०' (७।३।११८) अट्समासान्तः - अह्नदेशश्च । अपराणे जातः = अपराह्णकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अत्र 'वर्षा-कालेभ्यः' (६।३।८०) इकण, 'पूर्वाह्णा०' (६।३।८७) तनट् एतयोर्द्वयोरपवादः । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[238]|
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy