SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २३६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [पारावारीणः] अवारस्य समुद्रस्य पारः = पारावारः । पारावारे कृतो लब्धः क्रीतः सम्भूतो वा = पारावारीणः । 'पारावारादीनः' (६।३।६) ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-घुवर्णान्नो ण०' (२।३।६३) न० → ण० । [शयने शेते ] 'शीफू स्वप्ने' (११०५) शी । शय्यतेऽस्मिन्निति शयनम् । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय्, तस्मिन् ॥छ।। कुशले ॥ ६।३।९५ ॥ [कुशले ] कुशल सप्तमी ङि । [सौनः] स्रुघ्ने कुशलः = स्रौघ्नः । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [माथुरः] मथुरायां कुशलः = माथुरः । 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । [नादेयः] नद्यां तरणे कुशलः = नादेयः । 'नद्यादेरेयण' (६।३।२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । [राष्ट्रियः] राष्ट्रे कुशलः = राष्ट्रियः । 'राष्ट्रादियः' (६।३।३) इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ। पथोऽकः ॥ ६।३।९६ ॥ [पथः] पथिन् पञ्चमी ङसि । 'इन् ङी-स्वरे लुक् (१।४।७९) इन्लुक् । [अकः] अक प्रथमा सि । [पथकः] पथिन् । पथि कुशलः = पथकः । अनेन अकप्र० । 'नोऽपदस्य तद्धिते' (७४।६१) इन्लुक् ॥छ।। कोऽश्मादेः ॥ ६।३।९७ ॥ [कः] क प्रथमा सि । [अश्मादेः ] अश्म आदिर्यस्य सः = अश्मादिः, तस्मात् । [अश्मकः] अश्मनि कुशलः = अश्मकः । अनेन कप्र० । [अशनिकः] अशनौ-वज्रे कुशलः = अशनिकः । अनेन कप्र० । [आकर्षकः] आकर्षः-कुतुपादिः, तत्र कुशलः = आकर्षकः । अनेन कप्र० ॥छ।। जाते ॥ ६।३।९८ ॥ [जाते] 'जनैचि प्रादुर्भावे' (१२६५) जन् । जायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'आः खनि-सनि-जनः' (४।२।६०) न० → आ० । 'समानानां तेन०' (१।२।१) दीर्घः, तस्मिन् । [स्त्रौघ्नः ] स्रुघ्ने जातः = स्रौघ्नः । 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । [माथुरः] मथुरायां जातः = माथुरः । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[236]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy