SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ २१९ [दाक्षिकन्थीयः] दक्षस्यापत्यं = दाक्षिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । दाक्षीणां कन्था = दाक्षिकन्था, तस्यां भवः = दाक्षिकन्थीयः । णिकेकणोरपवादः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।। [माहकिकन्थीयः] अर्ह (५६४) - 'मह पूजायाम्' (५६५) मह् । महतीति माहकः । 'णक-तृचौ' (५।१।४८) णकप्र० → अक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । माहकस्यापत्यं = माहकि(:) । 'अत इञ्' (६।१।३१) इप्र० → इ । माहकीनां कन्था = माहकिकन्था, तस्यां भवः = माहकिकन्थीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७/४/६८) आलुक् । [दाक्षिपलदीयः] दाक्षीणां पलदः = दाक्षिपलदः, तत्र भवः = दाक्षिपलदीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [माहकिपलदीयः] माहकीनां पलदः = माहकिपलदः, तत्र भवः = माहकिपलदीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । नगरोत्तरपदात् 'रोपान्त्यात्' (६।३।४२) अकत्रि प्राप्ते [दाक्षिनगरीयः] दाक्षीणां नगरं = दाक्षिनगरम्, तत्र भवः = दाक्षिनगरीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । [माहकिनगरीयः] माहकीनां नगरं = माहकिनगरम्, तत्र भवः = माहकिनगरीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । ग्राम-हृदोत्तरपदात् णिकेकणोरेव [दाक्षिग्रामीयः] दाक्षीणां ग्रामः = दाक्षिग्रामः, तत्र भवः = दाक्षिग्रामीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [माहकिग्रामीयः] माहकीनां ग्रामः = माहकिग्रामः, तत्र भवः = माहकिग्रामीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [दाक्षिहदीयः] दाक्षीणां हृदः = दाक्षिहृदः, तत्र भवः = दाक्षिहदीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [माहकिहूदीयः] माहकीनां हृदः = माहकिहूदः, तत्र भवः = माहकिहूदीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [आर्षिकः] ऋषिक । ऋषिकेषु भवः = आर्षिक: । 'कोपान्त्याच्चाऽण्' (६।३।५६) अण्प्र० → अ । वृद्धिः आर् । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । [माडनगरः] मा 'अद्ड अभियोगे' (२५७) अड् । मा या लक्ष्या अडति = मडः । 'अच्' (५।१।४९) अच्प्र० → अ । 'पृषोदरादयः' (३।२।१५५) हुस्वः । मा(म)डनगरे भवः = माडनगरः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। पर्वतात् ॥ ६।३।६० ॥ [पर्वतात्] पर्वत पञ्चमी ङसि । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [219]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy