SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [माद्रः] मद्रस्यायम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छ।। उवर्णादिकण् ॥ ६।३।३९ ॥ [उवर्णात् ] उकारेण उपलक्षितो वर्णः = उवर्णस्तस्मात् । [इकण्] इकण प्रथमा सि ।। परत्वात् 'दोरीयः' (६।३।३२) - ‘वाहीकेषु ग्रामात्' (६।३।३६) इति विहितान् ईय-णिकेकणोऽपि बाधते । [शाबरजम्बुकः] 'जनैचि प्रादुर्भावे' (१२६५) जन् । जायन्ते मधुरफलानि यस्यां सा = जम्बूः । 'कमि-जनिभ्यां बू:' (उणा० ८४७) बु(बू) । 'उतोऽप्राणिनश्चा-ऽयु-रज्ज्वादिभ्य ऊङ्' (२।४/७३) ऊप्र० → ऊ(?) । शबरोपलक्षिता जम्बूः = शबरजम्बूः । शबरजम्ब्वां भवः = शाबरजा(ज)म्बुकः । अनेन इकण्प्र० → इक । वृद्धिः । 'ऋवर्णोवर्ण०' (७।४।७१) इकणः इकारलोपः । 'ङ्यादीदूतः के' (२।४।१०४) हुस्वः । [नैषादकर्षुकः] निषादका भवः = नैषादकर्षकः । अनेन इकण्प्र० → इक । वृद्धिः ऐ । 'ङ्यादीदूतः के (२।४।१०४) ह्रस्वः । 'ऋवर्णोवर्ण०' (७४/७१) इकारलोपः । [ दाक्षिकर्षुकः ] दाक्षिकर्पू । दाक्षिका भवः = दाक्षिकर्षुकः । अनेन इकण्प्र० → इक । वृद्धिः । 'ङ्यादीदूतः के' (२।४।१०४) ह्रस्वः । 'ऋवर्णोवर्ण०' (७।४।७१) इकारलोपः ।। [प्लाक्षिकएकः] प्लाक्षिकर्पू । प्लाक्षिका भवः = प्लाक्षिकर्षुकः । अनेन इकण्प्र० → इक । वृद्धिः । 'ऋवर्णोवर्ण०' (७।४/७१) इकारलोपः । 'झ्यादीदूतः के' (२।४।१०४) ह्रस्वः ।। [आव्रीतमायवकः] आव्रीत-मायु । आव्रीतो मायुर्येन सः = आव्रीतमायुः । आव्रीतमायौ भवः = आव्रीतमायवकः । प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वार्थात्' (६।३।४३) अकप्र० → अक । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [जैह्रवकः] जिह्वषु भवः = जैह्नवकः । 'प्रस्थ-पुर०' (६।३।४३) अकञ्प्र० → अक । वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [ऐक्ष्वाकः] इक्ष्वाकु । इक्ष्वाको भवः = ऐक्ष्वाकः । 'कोपान्त्याच्चाण' (६।३।५६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'सारवैश्वाक-मैत्रेय-भ्रौणहत्य-धैवत्य-हिरण्मयम्' (७।४।३०) उलोपः । [पाटवाः] पटु । पटोरिमे च्छात्राः = पाटवाः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धि: स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । जस् ॥छ।। दोरेव प्राचः ॥ ६।३।४० ॥ [ दोरेव] दु पञ्चमी ङसि । एव प्रथमा सि । [प्राचः] प्राच् पञ्चमी ङसि । [आषाढजम्बुकः] आषाढाः प्रयोजनमस्य = आषाढः । 'विशाखा-ऽऽषाढान्मन्थ-दण्डे' (६।४।१२०) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । आषाढजम्ब्वां भवः = आषाढजम्बुकः । अनेन इकण्प्र० इक । वृद्धिः । 'ऋवर्णोवर्ण०' (७४/७१) इकारलोपः । 'झ्यादीदूतः के' (२।४।१०४) ह्रस्वः । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[206]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy