SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [राजकीयः] राज्ञोऽयं = राजकीयः । अनेन अकीयप्र० । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लोपः । [राजकीयम् ] राजन् 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङी । 'अनोऽस्य' (२।१।१०८) अलुक् । 'तवर्गस्य०' (१।३।६०) न० → ज० । जराज्या इदं = राजकीयम् । अकीयविषये 'जातिश्च णि-तद्धितय-स्वरे' (३।२।५१) पुंवत् । अनेन अकीयप्र० । 'नोऽपदस्य०' (७।४।६१) अन्लोपः । [स्वकीयम् ] स्व एव = स्वकः । स्वार्थे कप्र० । स्वकस्येदं = स्वकीयम् । 'गहादिभ्यः' (६।३।६३) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [देवकीयम् ] देव एव = देवकः । स्वार्थे कप्र० । देवकस्येदं = देवकीयम् । 'गहादिभ्यः' (६।३।६३) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । [सौवम् ] स्व मण्ड्य ते । स्वस्येदं = सौवम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'लोकात्' (१।१।३) स्पाठउ विश्लेषियइ । 'द्वारादेः' (७।४।६) औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । [ दैवमायुः ] देव मण्ड्यते । देवस्येदं = दैवम् । 'देवाद् यञ् च' (६।१।२१) अप्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [दैवी वाक] दैवी इत्यत्र 'अणजेयेकण' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।। दोरीयः ॥ ६।३।३२ ॥ [दोरीयः] दु पञ्चमी ङसि । 'ङित्यदिति' (१।४।२३) ओ । 'एदोद्भ्यां ङसि-ङसो रः' (१।४।३५) ङसि० → र० । ईय प्रथमा सि । [देवदत्तीयः] देवदत्तस्यायं = देवदत्तीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् [जिनदत्तीयः ] जिनदत्तस्यायं = जिनदत्तीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।। [तदीयः] तद् । तस्यायं = तदीयः । अनेन ईयप्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [यदीयः] यद् । यस्यायं = यदीयः । अनेन ईयप्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [गार्गीयः] गर्गस्यापत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्यञ्' (६।१४२) यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । गार्ग्यस्यायं = गार्गीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । [वात्सीयः] वत्सस्यापत्यं (वृद्ध) = वात्स्यः । 'गर्गादेर्यन्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वात्स्यस्यायं = वात्सीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तद्धितय०' (२।४।९२) यलुक् । [शालीयः] शालस्यायं = शालीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [गोनर्दीयः] 'प्राग् देशे' (६।१।१०) इति दुसंज्ञा । गोनर्दस्यायं = गोनदीर्यः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । हैमप्रकाशे - राज्ञ इदं = राजकीयः । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[200]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy