SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १९४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [शैविरूप्यम्, शैवरूप्यम् ] शिवेन रूप्यते = शिवरूप्यः । 'य एच्चातः' (५।१।२८) यप्र० । शिवरूप्ये भवः = शैवरूप्यः । अनेन णप्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । यद्वा शिवेरपत्यानि । 'दु-नादि-कुर्वित्०' (६।१।११८) ज्यप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) इति लुप् । शिविभी रूप्यते । ‘य एच्चातः' (५।१।२८) यप्र० । [आरण्याः सुमनसः, आरण्याः पशवः] अरण्ये भवाः = आरण्याः । अनेन णप्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । यदुक्तं लिङ्गानुशासने - सिकताः सुमनसः सा(स)माः इति स्त्रीत्वम् (श्लोकाङ्कः - ९)। [माणिरूप्यकः] मा-अविद्यमाना अणिराणिर्वा यस्य सः = माणिः, तेन रूप्यते = माणिरूप्यः । 'य एच्चातः' (५।१।२८) यप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । माणिरूप्ये जातः = माणिरूप्यकः । 'प्रस्थ-पुर-वहान्त-योपान्त्यधन्वार्थात्' (६।३।४३) अकञ्प्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अन्तग्रहणेनैव सिद्धे उत्तरपदग्रहणं बहुप्रत्ययपूर्वनिवृत्त्यर्थम् [बाहुरूप्यी] ईषदूनो रूप्यः = बहुरूप्यः । बहुरूप्ये भवा = बाहुरूप्यी । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् ॥छ।। दिक्पूर्वादनाम्नः ॥ ६।३।२३ ॥ [दिक्पूर्वात् ] दिक् पूर्वा यस्य सः = दिक्पूर्वः, तस्मात् । [अनाम्नः ] न नाम = अनाम, तस्मात् = अनाम्नः । 'अनोऽस्य' (२।१।१०८) अलुक् । [पौर्वशालः, पौर्वशाला] पूर्वा च सा शाला चेति 'पूर्वा-ऽपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीरम्' (३।१।१०३) इति कर्मधारयः । यदि वा पूर्वस्यां शालायां भवः । तद्धितविषये 'दिगधिकं संज्ञा - तद्धितोत्तरपदे' (३।१।९८) इति तत्पुरुषकर्मधारयो द्विगुस्ततः संख्यापूर्वपदत्वाभावात् तदा अनेन णप्र० → अ । वृद्धिः औ । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । [आपरशालः, आपरशाला] अपरस्यां शालायां भवः = आपरशालः । अनेन णप्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । [पूर्वेषुकामशमः ] पूर्वेषुकामशमी मण्ड्यते । पूर्वेषुकामशमी नाम ग्रामः, तस्यां भवः = पूर्वेषुकामशमः । अनेन णप्र० → अ । 'प्राग्ग्रामाणाम्' (७।४।१७) इत्यनेन उत्तरपदवृद्धिः ऐ । [अपरैषुकामशमः ] अपरेषुकामशमी नाम ग्रामः, तस्यां भवः = अपरैषुकामशमः । अनेन णप्र० → अ । 'प्राग्ग्रामाणाम्' (७४।१७) इत्यनेन उत्तरपदवृद्धिः ऐ ।। [पूर्वकाऴ्मृत्तिकी] पूर्वकृष्णमृत्तिकायां भवः = पूर्वकार्णमृत्तिकी । अनेन णप्र० → अ । 'प्राग्ग्रामाणाम्' (७।४।१७) इत्युत्तरपदवृद्धिः आर् । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [194]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy