SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [वास्त्रः] वस्त्र । वस्त्रेण छन्नो रथः = वास्त्रः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [काम्बलः] कम्बलेन छनो रथः = काम्बलः । अनेन विहितः 'प्राग् जितादण्' (६।११३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [चार्मणः] चर्मन् । चर्मणा छन्नो रथः = चार्मणः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अणि' (७।४।५२) इत्यन्त्यस्वरादिलोपनिषेधः । [द्वैपः] द्वीपिन् । द्विपिनो विकारः = द्वैपः । 'हेमादिभ्योऽज्' (६ारा४५) अप्र० + अ । वृद्धिः ऐ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लोपः । द्वैपेन-चर्मणा छन्नो रथः = द्वैपः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । [वैयाघ्रः] व्याघ्र । व्याघ्रस्य विकारः = वैयाघ्रः । विकारे अण्प्र० → अ । 'लोकात्' (१।१।३) व् पाठउ विश्लेषियइ । 'य्वः पदान्तात् प्रागैदौत्' (७४।५) ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । वैयाघ्रण चर्मणा छन्नो रथः = वैयाघ्रो रथः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [कौमारः पतिः] न विद्यते पूर्वः पतिर्यस्याः सा = अपूर्वा कुमारी, तादृशीं कुमारीमुपपन्नः = कौमारः पतिः । [कौमारी भार्या ] कुमार्यां भवः = कौमारः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) ईलोपः । कौमारस्य भार्या-कौमारी । 'धवाद् योगादपालकान्तात्' (२।४।५९) ङी । 'अस्य यां लुक् (२।४।८६) अलुक् । भार्या प्रथमा सि ॥छ।। पाण्डुकम्बलादिन् ।। ६।२।१३२ ।। [पाण्डुकम्बलात् ] पाण्डुश्चासौ कम्बलश्च, तस्मात् । [इन् ] इन् प्रथमा सि । [पाण्डुकम्बली रथः] पाण्डुकम्बलेन छन्नः = पाण्डुकम्बली । अनेन इन्प्र० । 'प्रथमा सि । 'इन्-हन्पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१४|४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । रथः ॥छ।। दृष्टे साम्नि नाम्नि ॥ ६।२।१३३ ॥ [दृष्टे] दृष्ट सप्तमी ङि । [साम्नि ] सामन् सप्तमी ङि । [नाम्नि ] नामन् सप्तमी ङि । [क्रौञ्चम् ] 'नडादेः कीयः' (६।२।९२) इति गणपाठात् क्रुञ्चाशब्दस्य हुस्वः । क्रुञ्चेन दृष्टं साम = क्रौञ्चम् । अनेन विहितः ‘प्राग् जितादण' (६।१।१३) अण्प्र० । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [मार्गीयवम् ] मृगीयुणा दृष्टं साम = मार्गीयवम् । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० । वृद्धिः आर् । 'अस्वयम्भुवोऽव्' (७।४/७०) अव् । सि-अम् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [180]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy