SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । सुतङ्गमादेरिञ् ॥ ६।२।८५ ॥ [सुतङ्गमादेः] सुतङ्गम आदिर्यस्य सः = सुतङ्गमादिः, तस्मात् । [इञ्] इञ् प्रथमा सि ।। [सौतङ्गमिः ] सुत अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) 'गम्लं गतौ' (३९६) गम् । सुतं गच्छतीति सुतङ्गमः । 'नाम्नो गमः खड्डौ०' (५।१।१३१) खप्र० → अ । 'खित्यनव्ययाऽरुषो मोऽन्तो हुस्वश्च' (३।२।९१) मोऽन्तः । सुतङ्गमस्य निवासः - अदूरभवो वा । सुतङ्गमोऽत्रास्ति । सुतङ्गमेन निवृत्तः = सौतङ्गमिः । अनेन इञ्प्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [मौनिचित्तिः] मुनेरिव चित्तं यस्य सः = मुनिचित्तः । मुनिचित्तस्य निवासः - अदूरभवो वा । मुनिचित्तोऽत्रास्ति । मुनिचित्तेन निवृत्तं = मौनिचित्तिः । अनेन इप्र० → इ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । इति सुतङ्गमादिः ॥छ।। बलादेर्यः ॥ ६।२।८६ ॥ [बलादेः] बल आदिर्यस्य सः = बलादिः, तस्मात् । [यः] य प्रथमा सि । [बल्यम् ] बलस्य निवासः - अदूरभवो वा । बलमत्रास्ति । बलेन निवृत्तं = बल्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जबुल्यम् ] बुलस्य निवासः - अदूरभवो वा । बुलमत्रास्ति । बुलेन निवृत्तं = बुल्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [पुल] पुल पगु कथ्यते । [ दुल ] 'दुलण् उत्क्षेपे' (१६९३) दुल् । [नल] नल तृणविशेषः ।। [दल] दल खण्डम् । [लकुल ] 'लगे सङ्गे' (१०२४) लग् । लगतीति लकुल । 'कुमुल - तुमुल - निचुल - वञ्जुल - मञ्जुल - पृथुल - विशंस्थुलाङ्गल - मुकुल - शष्कुलादयः' (उणा० ४८७) लकुलनिपात्यते । इति बलादिगणः ॥छ।। अहरादिभ्योऽञ् ॥ ६।२।८७ ॥ [अहरादिभ्यः] अहन् - आदि । अह आदिर्येषां ते = अहरादयः, तेभ्यः = अहरादिभ्यः । 'रो लुप्यरि' (२।१।७५) न० → र० । [अञ्] अञ् प्रथमा सि । ॐ इदमुदाहरणं बृहद्बत्रौ नास्ति । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [154]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy