SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ॥ १४५ [दासमित्रि] दासमित्रस्यापत्यं = दासमित्रि । 'अत इब्' (६।१।३१) इप्र० → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । [दासमित्रायण] दासमित्रस्यापत्यं = दासमित्रायणः । 'नडादिभ्य आयनण्' (६।१।५३) आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७/४/६८) अलोपः । [शौद्रकायण] शूद्रकस्यापत्यं युवा(वृद्धम्) । 'अश्वादेः' (६।१।४९) आयनणप्र० → आयन । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । [शयाण्ड ] शये अण्डोऽस्य स = शयाण्ड(:) । [ धैनव] धेनु । धेनोरपत्यं = धैनवः । 'उत्सादेरञ्' (६।१।१९) अप्र० → अ । वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । [ तुण्डदेव ] तुण्डप्रधानो देवः = तुण्डदेवः । [वायौविद] वायु सप्तमी ङि । 'विदक् ज्ञाने' (१०९९) विद् । वायौ वेत्तीति वायौविद । 'मूलविभुजादयः' (५।१।१४४) कप्र० → अ । गणपाठादलुप्समासः ॥छ।। निवासा-ऽदूरभवे इति देशे नाम्नि ॥ ६।२।६९ ।। [ निवासाऽदूरभवे ] निवासश्च अदूरभवश्च = निवासाऽदूरभवम्, तस्मिन् । [इति ] इति सप्तमी ङि । 'अव्ययस्य' (३।२।७) ङिलुप् । इतिशब्दो विवक्षार्थः, तेन रुढेन नाम्नि वा प्रत्ययो भवतीत्यर्थः । [देशे] देश सप्तमी ङि । [नाम्नि ] नामन् सप्तमी ङि । क्रियतेऽर्थप्रतीतिरनेनेति करणः शब्दो विवक्षार्थः । तेनानुवृत्ते व्यवहारमनुपतिते-अनुगते नाम्नि विज्ञेयम्, न स्वयं कृते । [आर्जुनावः] ऋजुनौ । ऋजुनाव ऋजुनावानां वा निवासः = आर्जुनावः । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः आर् । 'ओदौतोऽवाव्' (१।२।२४) आव् । [शैबः ] शिबि । शिबीनां निवासः = शैबः । अनेन विहितः ‘प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । [औषुष्टः ] उषुष्टस्य निवास: = औषुष्टः । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुकु । [शाकलः ] शकला । शकलाया निवासः = शाकलः । [वैदिशं नगरम् ] 'दिशीत् अतिसर्जने' (१३१८) दिश, विपूर्व० । विविधं दिश्यतेऽसाविति विदिशा । 'स्थाऽऽदिभ्यः कः' (५।३।८२) कप्र० → अ । विविधं दिशन्ति फलं वा । 'नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः' (५।१।५४) कप्र० → अ । विविधा दिशो यस्यां सा = विदिशा । 'अजादेः' (२।४।१६) आप्प्र० । 'विदिशाया अदूरभवं = 卐 बृहद्वृत्तौ - शयण्ड । ॐ बृहद्वत्तौ - वैश्वधेनव । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [145]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy