SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [दण्डी] दण्ड्या विकारोऽवयवो वा फलं = दण्डी । [दोडी] दोड्या विकारोऽवयवो वा फलं = दोडी । [दाडी] दाड्या विकारोऽवयवो वा फलं = दाडी । 'प्राण्यौषधि-वृक्षेभ्यो०' (६।२।३१) अण्प्र० । अनेन लुप् । 'यादेर्गौणस्याक्विप०' (२।४।९५) डीनिवृत्तिः । पुनरेव ङी । एतेषु उदाहरणेषु हरीतक्यादिशब्दः फले वर्तमानः नित्यं स्त्री गौरादित्वात्, दाडी वृक्षे तु त्रिलिङ्गः । सर्वेषु 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । [पथ्या] पथ्याया विकारोऽवयवो वा = पथ्या । [अम्लिका] अम्लिकाया विकारोऽवयवो वा = अम्लिका । [चिञ्चा] चिञ्चाया विकारोऽवयवो वा = चिञ्चा । [द्राक्षा] द्राक्षाया विकारोऽवयवो वा = द्राक्षा । [मृद्वीका] मृद्वीकाया विकारोऽवयवो वा फलं = मृद्वीका । [कणा] कणाया विकारोऽवयवो वा = कणा । [वला] वलाया विकारोऽवयवो वा फलं = वला । [एला] एलाया विकारोऽवयवो वा = एला । [शाला] शालाया विकारोऽवयवो वा फलं = शाला । [काला] कालाया विकारोऽवयवो वा फलं = काला । [गर्गरिका] गर्गरिकाया विकारोऽवयवो वा फलं = गर्गरिका । [कण्टकारिका] कण्टकारिकाया विकारोऽवयवो वा फलं = कण्टकारिका । [शेफालिका] शेफालिकाया विकारोऽवयवो वा फलं = शेफालिका । 'विकारे' (६।२।३०) अण्प्र० । अनेन लुप् । 'ङ्यादेhणस्याक्विप०' (२।४।९५) आनिवृत्तिः । पुनरेव 'आत्' (२।४।१८) आप्प्र० → आ । [ओषधिः] ओषधेर्विकारः फलम् = ओषधिः । [कर्कारुः] कर्कारोविकारः फलं = कर्कारः । विकारे अण्प्र० । अनेन लुप् ॥छ।। प्लक्षाऽऽदेरण् ।। ६।२।५९ ॥ [प्लक्षाऽऽदेः] प्लक्ष आदिर्यस्य सः = प्लक्षाऽऽदिः, तस्मात् । [अण्] अण् प्रथमा सि । [प्लाक्षम् ] प्लक्षस्य विकारोऽवयवो वा फलं = प्लाक्षम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [नैयग्रोधम् ] न्यग्रोध । न्यग्रोधस्य विकारोऽवयवो वा फलं = नैयग्रोधम् । अनेन अण्प्र० । 'लोकात्' (१।१।३) न् पाठउ विश्लेषियइ । 'न्यग्रोधस्य केवलस्य' (७४।७) इति ऐ - न्य० → नैय० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ॥छ।। Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st • 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [138]|
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy