SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । बहुवचनमाकृतिगणार्थम्-तेन काञ्चनी वासयष्टिरित्यादि सिद्धम् । 'हेमार्थान्माने' (६।२।४२) इत्यस्याणो बाधनार्थं वचनम् ॥छ।। अभक्ष्या-ऽऽच्छादने वा मयट् ॥ ६।२।४६ ॥ [अभक्ष्याऽऽच्छादने] भक्ष्यश्च आच्छादनं च = भक्ष्याऽऽच्छादनम् । न भक्ष्याऽऽच्छादनम् = अभक्ष्याऽऽच्छादनम्, तस्मिन् । [वा] वा प्रथमा सि । [मयट] मयट प्रथमा सि । [भस्ममयम्, भास्मनम् ] भस्मन् । भस्मनो विकारः = भस्ममयम् । अनेन मयट्प्र० → मय । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । एवम्-भास्मनम् । 'विकारे' (६।२।३०) अण्प्र० → अ । वृद्धिः । [अश्ममयम्, आश्मम् ] अश्मन् । अश्मनो विकारः = अश्ममयम् । अनेन मयट्प्र० → य । एवम्-आश्मम् । 'विकारे' (६।२।३०) अण्प्र० → अ । 'वाऽश्मनो विकारे' (७।४।६३) अन्त्यस्वरादिलोप: - अन्लुबित्यर्थः । [कपोतमयम्, कापोतम् ] कपोतस्य विकारोऽवयवो वा = कपोतमयम् । अनेन मयट्प्र० → मय । एवम्कापोतम् । 'प्राण्यौषधि-वृक्षेभ्योऽवयवे च' (६।२।३१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । [दूर्वामयम्, दौर्वम् ] दूर्वाया विकारोऽवयवो वा = दूर्वामयम् । अनेन मयट्प्र० → मय । एवम्-दौर्वम् । 'प्राण्यौषधि-वृक्षेभ्योऽवयवे च' (६।२।३१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । [मूर्वामयम्, मौर्वम् ] मूळया विकारोऽवयवो वा = मूर्वामयम् । अनेन मयट्प्र० → मय । एवम्-मौर्वम् । 'प्राण्यौषधि०' (६।२।३१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । [करीरमयम्, कारीरम् ] करीरस्य विकारोऽवयवो वा = करीरमयम् । अनेन मयट्प्र० → मय । एवम्कारीरम् । 'प्राण्यौषधि०' (६।२।३१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [शिरीषमयम्, शैरीषम् ] शिरीषस्य विकारोऽवयवो वा = शिरीषमयम् । अनेन मयटप्र० → मय । एवम्शैरीषम् । 'प्राण्यौषधि०' (६।२।३१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [मौद्गः सूपः] मुद्गस्य विकारोऽवयवो वा = मौद्गः सूपः - दालिरुच्यते । 'विकारे' (६।२।३०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [कार्पासः पटः ] कर्पासस्य विकारोऽवयवो वा = कार्पासः पटः । 'विकारे' (६।२।३०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st • 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [130]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy