SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः ।। प्राच्येञोऽतौल्वल्यादेः || ६|१|१४३ || [ प्राच्येञ: ] प्राच्ये प्राच्याद्वा इञ् = पाच्येञ्, तस्मात् । [ अतौल्वल्यादेः ] तौल्वलिरादिर्यस्य सः = तौल्वल्यादिः । न तौल्वल्यादिः अतौल्वल्यादिः तस्मात् । ब्राह्मणार्थं वचनम् । = = [ पान्नागारि: पिता-पुत्रः ] पन्नं - पतितमगारं यस्य सः = पन्नागारः । पन्नागारस्यापत्यं वृद्धं पान्नागारि: । 'अत इञ्' (६।१।३१) इञ्प्र० इ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । पितुः पान्नागारेरपत्यं युवा पान्नागारिः पुत्रः । 'यञिञः' (६।११५४) आयनण्प्र० । अनेन आयनणलुप् । = [ मान्थरेषणिः पिता-पुत्रः ] मन्थो रेषणं - हिंसोपगरणं यस्य सः । मन्थरेषणस्यापत्यं वृद्धं मान्थरेषणि: । 'अत इव्' (६।१।३१) इक्प्र० इ वृद्धिः आ 'अवर्णेवर्णस्य' (७१४२६८) अलुक् पितुः मान्थरेषणेरपत्यं युवा मान्धरेषणिः पुत्रः । 'यजिज' (६।११५४) आयनण्प्र० । अनेन आयनलुप् । = = [ क्षैरकलम्भिः पिता-पुत्रः ] क्षीरकलम्भस्यापत्यं वृद्धं क्षैरकलम्भिः । पितुः क्षैरकलम्भेरपत्यं युवा क्षैरकलम्भिः पुत्रः । 'यञिञः' (६ ११५४) आयनण्प्र० । अनेन आयनलुप् । = = १०७ [ दाक्षि: पिता, दाक्षायणः पुत्रः ] दक्षस्यापत्यं वृद्धं = दाक्षि: । 'अत इञ्' (६।१।३१) इञ्प्र० इ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । दाक्षेरपत्यं युवा = दाक्षायणः । 'यञिञः ' (६।१।५४) आयनण्प्र० आयन । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । [ राघवः पिता, राघवः पुत्रः ] रघु रघोरपत्यं राघवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० अ वृद्धिः । स्वरेष्वादेणिति०' (७|४|१) वृ० आ । 'अस्वयम्भुवोऽव्' (७|४|७०) अव् । राघवस्यापत्यम् । 'अत इञ्' (६।१।३१) इक्प्र० इ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = [ तौल्वलिः पिता, तौल्वलायनः पुत्रः ] तुल्वलस्यापत्यं = तौल्वलिः । 'अत इञ्' (६।१।३१) इञ्प्र० । ‘वृद्धिः स्वरेष्वादेज्यति०' (अ४।१) वृ० औ 'अवर्णेवर्णस्य' (७४|६८) अलुक् पितुः तौल्वलेरपत्यं युवा तौल्वलायनः पुत्रः । 'यञिञः' (६।११५४) आयनण्प्र० आयन। 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । = = " [ तैल्वलिः पिता तैल्वलायनः पुत्रः ] तिल्वलस्यापत्यं तैल्वलिः 'अत इञ्' (६|१|३१) इज्प्र० । । इ वृ० ऐ। 'अवर्णैवर्णस्य' (७।४।६८) अलुक् । तैल्वलेरपत्यं बुवा = तैल्वलायनः पुत्रः । ‘यञिञः' (६|१|५४) आयनण्प्र० → आयन। 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । अपरे दलीप इति प्रकृत्यन्तरमाहुः । इति तौल्वला (ल्या) दिः ॥छ । I [ दालीपिः पिता, दालीपायनः पुत्रः ] दिलीप दिलीपस्यापत्यं = दालीपि: । 'अत इञ्' (६।१।३१ ) इञ्प्र० →इ । अत एव गणनिपातनात् इलोप: वृ० आकारः । दालीपेरपत्यं युवा दालीपि दालीपायनः पुत्रः । 'यजिज' (६।११५४) आयनप्र० आयन 'अवर्णेवर्णस्य' (७|४|६८) इलुक् प्रथमा सि सो रु' (२२११७२) स० → र० । 'र: पदान्ते विसर्गस्तयो: ' (१।३।५३) विसर्गः । = इत्याचार्य श्रीहेमचन्द्रविरचितायां तद्धितबृहद्धत्ती षष्ठस्याध्यायस्य प्रथमः पादः ॥ छ ॥
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy