SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्वारः श्रीमहावीरचरितम् दशमं पर्व प्रथमः सर्गः समवाप्य यस्य शरणं शक्रादपि नो बिभेति चमरेन्द्रः । स त्रिभुवनजननाथो वीरजिनो मे भवतु शरणम् ॥ अथाऽस्मिन्नेव जम्बूद्वीपे प्रत्यग्विदेहे महावप्रे विजये जयन्ती नाम पूर्यस्ति । तत्र च महैश्वर्यसम्पन्नः शत्रुमर्दनो नाम राजा बभूव । तस्य पृथिवीप्रतिष्ठानाख्ये ग्रामे स्वामिभक्तो नयसारो नाम ग्रामणीरासीत् । स च साधुसङ्गतिमप्राप्याऽपि कृत्यकर्मणे गुणग्राहको बभूव । स एकदा काष्ठार्थं नृपाज्ञया शकटान् गृहीत्वा पाथेयमादाय महाटवीं गतवान् । तस्मिस्तत्र वृक्षांश्छेदयति मध्याहो जातः । गगनेऽग्निरिव सूर्यः प्रदीप्तवान् । तदानीं च कालजैस्तस्य भृत्यैर्मण्डपाकारवृक्षतले रसवत्युपनीता ।
SR No.009896
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 06
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages147
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy