SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-१ इत् कृपादौ ॥ १.१२८ ॥ [गिंठी ] । गृष्टि । वक्रादावन्त इत्यनुस्वारः ॥ [पिच्छी ] । पृथ्वी । त्वथ्वद्वध्वामिति थ्वस्य छकारस्तस्य द्वितीयतुर्येति चकारः ॥ [इड्डी ] । ऋद्धि । श्रद्धद्धिमूर्द्धाद्धेऽन्ते वा इति खेर्डः । द्वितीयतुर्येति द्वित्वम् ॥ [किच्चा] । कृत्या । त्योऽचैत्ये - त्यस्य चः ॥ [विञ्चुओ] । वृश्चिक । वृश्चिके श्चेञ्चुर्वा इति श्चेः ञ्चुरादेशः ॥ [वाहित्तं ] । व्याहृत । अधो मनयाम् । सेवादी वेति तस्य द्वित्वम् ॥ [विइण्हो] । वितृष्ण । सूक्ष्मश्नष्णेति ग्रहः ॥ [छिहा ] । स्पृहा । स्पृहायां छः ॥ [रिद्धी ] । ऋद्धि । रिः केवलस्य ॥ १.१२८ ॥ __पृष्ठे वाऽनुत्तरपदे ॥ १.१२९ ॥ [पिट्ठी] । पृष्ट(ष्ठ) । जातेरयान्त० - ङी ॥ पिट्ठिपरिट्ठवियं । पिट्ठी । प्रतिष्ठा । णिग् । क्त । गुर्वादेरविर्वेति णेरविः । लुगित्यालुक् । दीर्घहस्वौ मिथो वृत्तौ । निःप्रती ओत्परी० ॥ १.१२९ ॥ मसृण-मृगाङ्क-मृत्यु-शृङ्ग-धृष्टे वा ॥ १.१३० ॥ [मिच्चू ] । मृत्यु । त्योऽचैत्ये ॥ १.१३० ॥ उदृत्वादौ ॥ १.१३१ ॥ [पुहई ] । पृथिवी । पथिपृथिवीति थेरिकारस्य अत्वम् ॥ [पाउसो] । प्रावृष् । दिक्प्रावृषोः सः ॥ १. इद्धी - मु. । इड्डी - ता. । २. जातेरयान्तेति, अजातेः पुंस इति वा ङीः - ताटि. । ३. वेमाजल्यादित्वात् स्त्रीत्वे जातेरयां० - ङी । दीर्घहुस्वौ० - हुस्वः । निःप्रती ओत्परी० । वाऽव्ययोत्खातेति हुस्वः - ताटि.। (अत्र 'परिस्थापित' इति संस्कृतसिद्धमेवाऽऽदृतम् ।) ४. ०ओत्परीति परि । ष्टस्याऽनुष्ट्रेति - दी. । (अत्र 'पृष्ट' इति प्रकृतित्वेनाऽऽदृतम् ।) ५. मिच्चु - मु. । मिच्चू - ता. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy