________________
द्वादशोऽध्यायः । खोच्चस्थस्वगृहेऽथवापि सुहृदां वर्गऽपि सौम्येऽथवा
संपूर्णः शुभवीक्षितः शशधरो वर्गे स्वकीयेऽथवा । शत्रूणामवलोकने न पतितः पापैरयुक्तेक्षितो
रिष्टं हन्ति सुदुस्तरं दिनपतिः पालेयराशिं यथा ॥ १४ ॥ शशिनोऽन्ये बुधसितयोराये क्रूरेषु वाक्पतौ गगने । दुरितं चातुर्थिकमिव नश्यति मुनिकुसुमरसनस्यैः ॥ १५ ॥ लग्नेश्वरस्य चन्द्रः षत्रिदशायहिबुकेषु शुभदृष्टः । क्षपयति समस्तरिष्टान्यनुयाँते नृपतिरोध इव ॥ १६ ॥ एको जन्माधिपतिः परिपूर्णबलः शुभैदृष्टः ।। हन्ति निशाकररिष्टं व्याघ्र इव मृगान् वने मतः ॥१७॥ इति कल्याणवर्मविरचितायां सारावल्यां चन्द्रारिष्टभङ्गो नामैकादशोऽध्यायः ।।
द्वादशोऽध्यायः । सर्वातिशाय्यतिबलः स्फुरदंशुमाली
लग्ने स्थितः प्रशमयेत् सुरराजमन्त्री । एको बहूनि दुरितानि सुदुस्तराणि __ भक्त्या प्रयुक्त इव चक्रधरे प्रणामः ॥ १॥ सौम्यग्रहैरतिबलैर्विबलैश्च पापै
लग्नं च सौम्यभवने शुभदृष्टियुक्तम् । सर्वापदाविरहितो भवति प्रसूतः ।
पूजाकरः खलु यथा दुरितैर्ग्रहाणाम् ॥ २॥ पापा यदि शुभवर्गे सौम्यैदृष्टाः शुभांशवर्गस्थैः । निघ्नन्ति तदा रिष्टं पतिं विरक्ता यथा युवतिः ॥ ३॥ राहुस्त्रिषष्ठलामे लग्नात् सौम्यैर्निरीक्षितः सद्यः । नाशयति सर्वदुरितं मारुत इव तूलसंघातम् ॥ ४ ॥
१ स्वोच्चे वा. २ वर्गेथ. ३ सौम्येऽपि. ४ अनुयातो निरुप, रिष्टं वारयते. ५ शुभग्रहैदृष्ट : ६ मत्तान्. ७ सर्वानिमानतिबलः, सर्वातिगाम्यतिबला. ८ जालो. ९ शूलधरे. १० भवनं. ११ भृगुदृष्टिपुष्टम्. १२ युक्त. १३ सर्वापदाभिरहितो.
Aho ! Shrutgyanam